________________
काश्यपशिल्प विचत्वारिंशः पटलः । तपाचे शयनस्थानं पर्यडून समन्वितम् । पुष्पदन्तपदे वाऽथ महेन्द्र(माहेन्द्र)पुष्पमण्डप ॥ ६३ ! गृहक्षपपदे कुर्याद्धान्यालयं द्विजोत्तम । पचि(रि)को मालिकानां च एवमेव प्रकल्पयेत् ।। ६४॥ मालिकात्वंरेपि(न्ते तु सो)मांशे कूपस्थानमुदाहृतम् । अथवाऽन्यप्रकारेण वक्ष्ये संदेशनिर्णयम् ।। ६५ ॥ शक (शक्रांकरयोमध्ये विद्यास्थानमुदाहृतम् ।। शंकरस्यांश(श्रीद) योमध्ये धनव्यास (स्थान)मुदाहृतम् ।। ६६ ।। याम्यपावकयोमध्ये पुष्पमण्डप उच्यते। याम्यतैरुभ(नैर्ऋत)योमध्ये स्नानाम्बुकोष्ठमुच्यते ।। ६७ ।। निऋतिवारुणीमध्ये धर्मश्रवणमण्डपम् । वायव्यवारुणीमध्ये आयुधस्थानमुच्यते ॥ ६८ ।। वायव्यसौम्ययोर्मध्ये शयनस्थानमुच्यते। ईशानसौम्य योमध्ये यागार्थ मण्डपं कुरु ।। ६९ ॥ जयन्ते मज्जनशाला(नागार)स्यादा(मा)नेये पचनाद(ल)यम् । परितो मालिकायां तु सकलस्थानमुच्यते ॥ ७० ॥ शांकरे नृत्तमूर्तिस्तु आग्नेट वृषवाहनम् । उमा स्कन्दं च सहित नैऋत्य परिकल्पयेत् ॥ ७१ ॥ कङ्कालं वायुदिग्भागे भिक्षाटनं जयन्तके । सुखासं तु सत्यांशे वितथे त्रिपुरान्तकम् ॥ ७२ ॥ सुग्रीवे हरिऋद्धं स्याद् गन्धर्वे चन्द्रशेखरम् । शेषांशे कामदहनं मुख्ये कालारिमूर्तिकम् ।। ७३ ॥ उदितेऽर्थनारिमूर्तिस्तु महेन्द्र कल्याणसुन्दरम् । क्षेत्रपालं तु पर्जन्ये याम्ये वैदक्षिणेश्वरम् ॥ ७४ ॥ वारुणे लिङ्गमुद्भूतं सौम्यं तु गजहारिणम् । इत्यर्धधर्म (हथ )ईशांश्च अन्तरालेषु कल्पयेत् ।। ७५ ॥ मूलहम्य समीक्ष्यव सकलस्थापनं कुरु । प्राकारेषु चतक्षुि द्वाद(र)शोभादि कल्पयेत् ॥ ७६ ॥ प्राकारततिमध्ये तु दीर्घमध्येतिवेचनम् । अथवा मूलहीस्य मध्यसूत्रश्रितं भवेत् ।। ७७ ।।