________________
११४
काश्यपशिल्पे त्रिचत्वारिंशः पटलः । कपोतादीनि नीवाङ्गप्रस्तारोक्तवदाचरेत् । अथवा तुलोपरिष्टात्तु इष्टकास्तरणं कुरु ॥ ४७ ॥ सुधया गुडतोयैश्च इष्टकास्तरणं भवेत् । करालमुद्गगुल्माः सकल्कचिकणमाचरेत् ॥ ४८ ॥ इष्टकास्तरणं ह्येतच्छिला चेन्दुतलोपरि।। शैलजोत्फलकाभिश्च च्छादयेत्तु विशेषतः ।। ४९ ।। बाजनोर्वे तु वाऽऽसाद्य सुधाकर्म समाचरेत् । एवमादितलं प्रोक्तमूभूमि बदाम्यहम् ॥ ५० ॥ मूलाग्रस्तम्भतुङ्गं तु मन्दमूलाष्टभाजिते । एकांशरहिताधिश्च तथेवोध्विभूमयः ।। ५१ ।। प्रस्तरं च तथार्धावमेकानेकतलोऽपि च ।। प्रस्तरांपरि कर्तव्यं भित्तिमेव परोदयम् ।। ५२ ।। छत्राकारं शिरोपेतं सदाकारमथापि वा। गोपानमथवा वाजं सदा कल्प्यान्तरं द्विन ।। ५३ ।। मृन्मयैलोष्टकोऽय सारदारूमयैस्तथा । गोपानं छादनं कुर्याल्लुपक्रियाशिरोन्वितम् ।। ५४ ।। सभाकारमिदं रूवातं यथष्टं तेषु कल्पयेत् ।। ५५॥ जातिपञ्चतलं ख्यातं छन्दवेदतलं भवेत् ।। ५६ ॥ विकल्पं तत्तलं विद्यादाभासत्वेव भूमिके। जात्यादीनां तु हम्याणां योग्य सालतलं कुरु ।। ५ । मर्यादिसालमाश्रित्य पात(व)के पचनालयम् । नत्य आयुधस्थानं वायव्यं शयनाईकम् ॥ ५८ ॥ शाङ्करे योगशाला स्यार्द्धशभागेऽथवा पुनः। आनिश्च(मेय)याम्ययोमध्ये कर्तव्यं जननालयम् ॥ ५९॥ सका(शक्र)शांकरयामध्यो मञ्च(ज्ज)नालयमेव हि । धान्यस्थानं च तत्पा भृङ्गराजश्(प)येऽपि वा ॥ ६० ।। निर्गतिवारुणीमध्ये पुस्तकारक्षता(नां महालयम् । सत्पार्श्वयोः प्रकर्तव्यं व्यञ्जनालयमुत्तमम् ।। ६१ । सोमवायव्ययोर्मध्ये वस्त्राणामालयं कुरु। सोमशंकरयोर्मध्ये गोर्यावासं प्रकल्पयेत् ।। ६२ ॥