________________
काश्यपशिल्पे त्रिचत्वारिंशः पटलः । धरातलं तदुक्तं वा घुर्जमं वा प्रकल्पयेत् । मूलहये तु होमादि उत्तरांशं नवांशके ।। ३२ ॥ धरातलं द्विभागं स्यात्सप्तांशं चरणोदयम् । उत्तरान्तं तु हामादि रुद्रभागविभाजिते ।। ३३ ।। अधिष्ठानं गुणांशं स्याच्छेषं पादोदयं भवेत् । मूलप्रासाद तुल्यं वा चरणं च धरातलम् ॥ ३४ ॥ पादोत्सेधाशमानं तु पट्सप्ताष्टौ तु वा भजेत् । एकांशं पादविष्कम्भं दारु(र)वाश्ममयं तु वा ॥ ३५॥ तत्रिभागं द्विभागं वा त्रिपादं वाऽधे एव वा । कुड्यपादस्य विस्तारं सर्वत्र परिकल्पयेत् ॥ ३६ ।। त्रिचतुप्पश्चहस्तं वा परितो मालिकाकृति । हस्तद्वयं समारभ्य पञ्चहस्तावसानकम् ॥ ३७॥ गुणाअन्लप्रद्धया च पङ्कथायां पञ्चविंशतिः। भेदेन कथितं विप्र सर्वत्र समपतयः ।। ३८ ॥ युग्मायुग्मं तु वा पङ्किः सर्वत्र परिकल्पयेत् । मूलभागविशालं तु धर्मनन्दाष्टभाजिते ॥ ३९ ॥ एकांशरहिताग्रं स्यान्मूलादग्रं क्रमात्कृशम् । अग्रपाद विशालं तु दण्ड इत्यभिधीयते ॥ ४०॥ दण्डं त्रिपादमधू च क्रमाच्छ्रेष्ठान्तराधमम् । उत्तरोत्सेधमाख्यातं विस्तारं मूलपादवत् ॥ ४१ ॥ मध्यपादसमं वाऽथ अग्रपादसमं तु वा । उत्तव्यासमाख्यानं श्रेष्ठन्तराधर्म क्रमात् ॥ ४२ ॥ उत्तरोचत्रिभागैक(वा) जनोत्सेधान(धं तु)नीत्रकम् । उत्तरोत्सेधतुल्यं तु तुलानीव्रमुदाहृतम् ।। ४३ ॥ तदधे वा त्रिपादं वा तस्य विस्तारमेव हि । वाजने व(गु)ल्मकोः वा तुलास्थापनमाचरेत् ।। ४४ ॥ तुलार्धनीवविस्तारं जयन्तस्य तुलोपरि । जयन्य(न्ता)धविशालोच्चमनुमार्गमुदाहृतम् ॥४५॥ तुलान्तरं तुलोच्चं तु जयन्त्याश्च तदन्तरम् । मनुपार्ग तथा फलप्यं दण्डमानेष्टकान्तरम् ॥ ४६ ।।