________________
काश्यपशिल्पे चतुश्चत्वारिंशः पटलः ।
माकारलक्षणं ह्येवं प्रोच्यते द्विजसत्तम ॥ ९३ ॥ इति काश्यपशिल्पे माकारलक्षणं त्रिचत्वारिंशः पटलः ।
अथ चतुश्चत्वारिंशः पटलः ।
मण्डपः ।
११७
अथ वक्ष्ये विशेषेण मण्डपानां तु लक्षणम् । प्रासादत्वे (स्यै) कभूमौ तु मोच्यते मुखण्ड |ः ॥ १ ॥ जातिश्च (च)न्द्रविकल्पानामाभासानां तथैव हि । प्रासादादिमुखे चैव दिशासु विदिशासु वा ॥ २ ॥ ग्रामादीनां तु मध्ये वा दिशासु विदिशासु च । उद्याने वा नदीतीरे तटाके वाऽथवा पुनः ॥ ३ ॥ देवार्थं मण्डपं कुर्यादष्टदिङ्मुखमण्डपम् । प्रासादस्याग्रतः कुर्यान्मडवं तु (पान) चतुष्टयम् ॥ ४ ॥ मुखमण्डपमादौ तु प्रतिमामण्डपं ततः ।
स्नापनार्थं तृतीयं तु नृत्तार्थं च चतुष्टय (क) म् ॥ ५ ॥ तेषु वै प्रथमं प्राग्वद्दितीयादीनि चो(दिरथो) च्यते । अन्तमाराणि चैतानि (हारांश्च तानेतान् ) मध्यहारादि (राव) वा कुरु ॥
मण्डपं (पान्म )ण्डपं तत्र शालाद्वा मण्डपान्तरम् । अन्तरालमिति ख्यातमादौ तल्लक्षणं शृणु ॥ ७ ॥ एकद्वित्रिश्चतुष्पञ्च षट्सप्तष्टकरं तु वा । नवधर्ममध (थो) वाऽपि रुद्रहस्तमथापि वा ॥ ८ ॥ अन्तरालविशालं तु ( लस्य) रुद्रसंख्या प्रकीर्तिता । यत्र यन्मण्डपं कुर्यात्तस्मिन्पङ्कया विशेषतः ॥ ९ ॥ एक द्वित्रिचतुष्पञ्च मक्त्या व ऽभ्यन्तरालकम् । सावकाशान्तरालं वा भित्तिमध्यमथापि वा ॥ १० ॥ भित्तिमध्यान्तरालं चेत्पार्श्वयोर्वेश संयुतम् ।
एकद्वित्रि अय) ग्रपादं वा केशं (वेशं ) भक्त्येकमेव वा ॥ ११ ॥