________________
काश्यपशिल्प एकचत्वारिंशः पटलः ।
अयैकचत्वारिंशः पटलः ।
षोडशभूमिः ।
अथ पोडशभूमिस्तु वक्ष्यते देशिकोत्तम । एवं क्रमेण संकल्प्य पश्चालिन्द्रसमान्यतम् ।। १ ।। पञ्चहारसपायुक्तं गृहपिण्डे समानकम् । गर्भगेहं समांशं च वेदांशं गृहपिण्डिका ।। २ ॥ शेषं पूर्ववदुद्दिष्टमलिन्द्रादि द्विजोत्तम । एकद्वित्रिचतुष्पञ्च भूमो वाऽथ धरातले ॥ ३ ॥ देवतास्थापनं कुर्यात्पोडशस्थलहम्बके । .. देवतास्थापनं भूमियोंवत्ताबद्धनं कुरु ॥ ४ ॥ बाह्योऽन्द्रे चिद (ह्यालिन्द्रे अलंकारं धनमत्यन्तरं कुरु । अलिन्द्रजलतत्पादाच्छादितं वा तुलादिभिः ॥ ५॥ प्रस्तरान्तर्यनं वाऽथ भान्तं वातात्तु तद्धनम् । व्यासे सवेदत्रिंशांशे कर्णकूटं शिवांशकम् ॥ ६ ॥ हम्येमध्ये तु वेदांशं शालायाममुदाहृतम् ।। तयोमध्ये तु पक्षाशे ध्वातुं सं(शेऽवतुङ्ग) परिकल्पयेत् ॥ ७ ॥ तयोर्मध्ये शिवांशेन पञ्जरं कर्णकूटवत् ।। हारान्तरं तयोमध्येद(ध्ये अाँशेनैव कल्पयेत् ॥ ८ ॥ एवं हि कल्पयेदादिभूमौ शालाष्टविंशतिः। . कर्णकूटं तु वेदासु (दांश) द्वात्रिंशं पञ्जरं भवेत् ॥ ९ ॥ सदपष्टिसंख्याः स्युह (ख्यं स्याद्धारान्तरं द्विजोत्तम । एवमादितलं ख्यातं तद्धि द्वात्रिंशदंशके ।। १० ।। द्विभाग मध्यशाला स्याच्छेषं पूर्ववदाचरेत ।। द्वितीयं ह्येवमाख्यातं तृतीयमधुनोच्यते ॥ ११ ॥ त्रिंशदंशद्विभागं तु कृत्वा मामन्त्रि(नं त्रि) भूमिकम् । कर्णकूटस्य पावस्थं पञ्जरं व्यर्धमागया ॥ १२ ॥ हारान्तरं तदर्ध स्याच्छेषं त्रितयभूमिवत् । चतुभूमिविशालं तु साष्टाविंशतिभागया ॥ १३ ॥