________________
काश्यपशिल्प एकचत्वारिंशः पटलः ।
कर्णकूटसमीपस्थं शालायास्तु द्विपार्श्वयोः । एकांशं पञ्जरव्यासं शेषं प्रागिव कल्पितम् ॥ १४ ॥ पञ्चमे तलविस्तारे पडिशत्यंशभाजिते । मध्ये शाला तु वेदांशं व्योमांशं कर्णकूटकम् ।। १५॥ तयोर्मध्यस्त (स्थ) शाला च तयोर्मध्ये च कोष्टकम् | प्रत्येकं च द्विभागेन कल्पयेत्कल्पवित्तमः ॥ १६ ॥ तयोर्मध्येऽभागेन पञ्जरं कर्णकूटकम् | हारान्तरं तदर्धेन तेषां संख्याऽऽदिभूमित्रत् ॥ १७ ॥ षष्टुं च भूमिविस्तारं चतुर्विंशतिभाजिते । मध्ये कोष्ठं द्विभागेन शेर्प पूर्ववदेव हि ।। १८ ।। सप्तभूमि (मे) स्तु विस्तारं द्वात्रिंशत्यंशकं भवेत् । शिवांश कर्णकूटं तु मध्यशाला द्विभागया ।। १९ ॥ तयोर्मध्ये शिवांशेन क्षुद्रकोष्ठं मकल्पयेत् । तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् || २० | अशं पञ्जव्यासं तदर्थं हारयोत्तरम् । पञ्जरं कूटकोष्ठं च संख्या वै प्रागिवैव तु ॥ २१ ॥ अष्टमं भूमिविस्तारं विंशत्यंशद्वि (वि) भाजिते । व्योमांशं कर्णकूटं स्यान्मध्ये कोष्ठं द्विभागया || २२ ॥ तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् । अशं पञ्जरव्यासं तदर्धे हारयोत्तरम् ॥ २३ ॥ पञ्जरं कूटकोष्ठं च संख्या स्यात्मागित्रैव तु । अष्टमं भूमिविस्तारं विंशत्यंशद्वि (वि) मा जिते ॥ २४॥ व्योमशं कर्णकूटं स्थानमध्ये कोष्ठं द्विभागया । तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् ॥ २५ ॥ तयोर्मध्ये शिवांशन क्षुद्रकष्ठं मकल्पयेत् । शेषं प्रागित्र कर्तव्यं तेषां संख्यादि पूर्ववत् || २६ ॥ नवभूमिविशालं तु त्रिः एडश विभाजिते । शिवांशं कर्णकूटं स्यान्मध्ये शाला द्विभाजिता || २७ ।। तयोर्मध्येऽर्धभागेन पञ्जरं परिकल्पयेत् । तस्यार्धेनैव तत्पार्श्वे तयेहा (यह )रान्तरं भवेत् ॥ २८ ॥
१०३