________________
काश्यपशिल्पे चत्वारिंशः पटलः! १०१ एवं भानुतलं प्रोक्तं त्रयोदशतलं शणु ॥ ११ ॥ इति काश्यपशिल्पे भानुभूमिविधानमेकोनचत्वारिंशः पटलः ।
-
--
अथ चत्वारिंशः पटलः ।
त्रयोदशभूमिः ।
अथ वक्ष्ये विशेषेण त्रयोदशतलं परम् ।
स्य विस्तारमानं स्थ(तु) प्रासादमानवद्भवेत् ।। १ ।। एकोनविंशदशं तु कर्तव्यं सदनं स्त(त)म ! गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डकम् ॥ ९ ॥ अलिन्द्रं च शिवांश स्याद्भिक्तिः स्यादुन्नतं समम् । अलिन्द्रं त्वेकभागेन भित्तिव्यासं शिवांशकम् ।। ३ ।। व्योमभागमलिन्द्र स्याद्धराव्यासं च तत्समम् । विन्याससत्रयोरन्तरेकोनविशदंशके ॥४॥ शिवांश कर्णकूट स्यान्मध्ये शालाऽग्निभागया । पक्षशाला च तत्तुल पमेकांशं पञ्जरस्य तु ॥ ५ ॥ हारान्तरमथार्धाशं क्षुद्रपञ्जरसंयुतम् । पञ्जरं कर्णकूटाभं तस्या(दा)भक्षुद्रपक्षरम् ॥ ६ ॥ एवमादितलं प्रोक्तमूर्य भानुतलोक्तवत् । चत्वारिंशद्वयाधिको शत शे सदनोत्सुके ॥ ७ ॥ पञ्चाशं तदधिष्ठानं दशांशं चरणोदयम् । भूतांशं मञ्चमानं स्याच्छेपं द्वादशभूमिवत् ।। ८ ।।
त्रयोदशतलं ह्येवं कलाभूमिमथोपरि ॥९॥ इति काश्यशिल्पे त्रयोदशभूमिविधानं नाम चत्वारिंशः पटलः ।