________________
काश्यपशिल्प एकोनचत्वारिंशः पटलः । नाम्ना कर्णविशालं तु सर्वदेवप्रियं गृहम् । एवमेकादशभूमिलक्षणं परिकीर्तितम् ॥ ३८ ॥ इति काश्यपशिल्पे रुद्रभूमिविधानमष्टात्रिंशः पटलः ।
अथकोनचत्वारिंशः पटलः ।
भानुभूमिः।
अथ वक्ष्ये विशेषेण भानुभूमिविधि परम् ! हर्म्यविस्तारतुङ्ग च प्रोक्तं प्रासादमानकम् ।। १ ।। ससप्तधर्मभागं तु कृत्वा प्रासादविस्तरम् । तदेव सौष्ठिकानां तु शीर्षकं कुण्डलाकृति :॥ २॥ भूताङ्ग गृह(गर्भ)गेहं तु पक्षांशं गृहपिण्डिका । अलिन्द्रं त्वेकभागेन कुडयमत्रां()शमानतः ॥ ३ ॥ अलिन्द्रं तु शिवशंशं स्याद्वारभागेन कल्पयेत् । अथवा गर्भगेहं तु गुणांशेनैव कारयेत् ।। ४ ॥ गर्भगेहस्य तुल्यं स्याद्गृहपिण्डयास्तु विस्मृ(स्तृ)तम् । शेषं मागिव कर्तव्यमलिन्द्र कुड्यहारया ॥५॥ विन्याससूत्रयोरन्तः सप्तदशविभाजिते । गुणांशं मध्यशाला स्यात्कर्णकूटं शिवांशकम् ।। ६ ।। तयोर्मध्ये तु पक्षांशं शालादिव्यमुदाहृतम् । कूटकोष्ठान्तरे चैत्र कोष्ठयोरन्तरेऽपि च ।। ७ ॥ शिवांशं पञ्जरव्यासं कर्णकूटमिवाकृतिम् । हारान्तरं तदूर्वाशं क्षुद्रपञ्जरसंयुतम् ॥ ८ ॥ एवमादितलं कुर्यादूर्ध्व रुद्रनलोक्तवत् ।। सप्तविंशं च तं भागं कृत्वा हर्योदयं द्विज ॥ ९ ॥ धा(ध)रातलोचं भूतांशं नवांशं चरणोदयम् । सार्थदेवा(वेदां)शं मञ्चोचं शेष रुद्रनलोक्तवत् ॥ १० ॥