________________
काश्यपशिल्पेऽष्टात्रिंशः पटलः । अर्धाधिक पड़शं तु पादोच्चाग्निस्तु मञ्चकम् । षडंशं पादतुङ्ग तु पादोनत्रिंशमञ्चकम् ।। २३ ॥ सत्रिपादं तु भूतांशं पाददीर्घमुदाहृतम् । अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् ॥ २४ ॥ सपादपञ्चभागं तु पादोदयमुदाहृतम् । सार्धपक्षांशमञ्चो भूतांशं चरणोदयम् ॥ २५ ॥ सपादपक्षमागं तु मनमानमुदीरितम् । पादोन पञ्चभागं तु चरणोद यमीरितम् ॥ २६ ॥ मञ्चमानं द्विभागं स्यात्सावेदांशमधिकम् । सत्रिपादशिवांशं तु प्रस्तरस्य समुच्चकम् ॥ २७॥ वस्वंश वेदिकामानं कण्ठोचं सार्धभागया । अर्धाधिकं तु वेदांशं शिखरोदयनिष्यते ॥ २८ ॥ पादोनं तु द्विभागं स्यात्स्तूपेरुदयमिष्यते । होमादिस्तूपिपर्यन्तं युगाअं परिकल्पयेत् ॥ २१ ॥ शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् । पदं प्रत्यल्पनासाढचं ब्रह्माकान्तं तदुच्यते ॥ ३० ॥ सौष्ठिकं सान्तरं मञ्चं विजयं तदुदाहृतम् । तदेव नतकूटं च कोष्ठानञ्चा(चान-ताः कोठाः)समञ्चकाः ॥३१॥ सर्हिकमिदं ख्यातं सर्वदेवाईक परम् । तदेव शिखरं कण्ठं वृत्तमष्टांशवेदिका ।। ३२ ।। इन्द्रकान्तमिति ख्यातं सर्वदेवाहे के परम् । तदेव मध्यभद्राढ्यं कूटकोष्ठौ समौ ततौ ॥ ३३ ॥ समञ्चं वा विमञ्च वा कूटशाला च पञ्जरम् । गणिकाशालकं प्रोक्तं ब्रह्मविष्णुशिवाहकम् ॥ ३४ ॥ तदेव शिखरं कण्ठं वृत्तमष्टाक्षिवेदिकम् । इन्द्रकान्तमिति ख्यातं विमानं सर्वदेविकम् ।। ३५ ।। तदेव कर्णकूटं तु भद्रयुक्तर्णकूट कम् । तदेव सौष्ठिकानां तु शीर्षकं मण्डलाकृति ॥ ३६ ।।