________________
काश्यपशिल्पे सप्तत्रिंशः पटलः ।
शिवांशं वेदिकोत्सेधं कण्ठं चाप्यर्धभागया। शीर्ष सपादवेदांशं पादोनद्वयंशदं(सं)शिखम् ।। २२ ।। पादं प्रत्यल्पनासाढचं शिखरं वेदनासिकम् ।' समं च नतकूटाढयं कूटाढथं चतुरश्रकम् ।। २३ ॥ होमादिस्तूपिपर्यन्तं युगानं परिकल्पयेत् । .. अशेषं मध्यशालं तु पावकोष्ठं तु निर्गतिः ॥ २४ ॥ दण्डं वाऽध्यर्धदण्डं वा नाम्ना ललितभद्रकम् । तदेवोन्नतकोष्ठाः स्युः समं च नतभद्रकम् ।। २५ ।। ब्रह्मकान्तामिदं नाम्ना सर्वदेवप्रियावहम् ।। समञ्चं वाऽपि(प्य)मञ्चं वा बूटकोष्ठसमन्विता(तमे) ॥ २६ ॥ मादेशमिति विख्यातं सर्वदेवप्रियावहम् । तदेव शिखरं कण्ठं वस्वभ्रं (अं) चाष्टनासिकम् ॥ २७ ॥ युगाअं वसुकोणं वा वृत्तं वा सौष्ठिकं पुनः। सौम्यशेषं युगानं स्याच्छीवर्धनमिदं परम् ।। २८ ॥ समञ्ची कूटकोष्ठो दा विमुचीसाध(मञ्चौ वाऽय)सदृशौ । वृत्ताश्रव(य)शिरोपेतं चतुर्दिग्भद्रनासिकम् ॥ २९ ॥ विदिक्षु युग्मनासाढयं युग्मसा(मेवाड)युग्ममेव वा । युग्मं पञ्जरसंयुक्तं सुपद्ममिति विद्यते ॥ ३० ॥ तदेव वृत्तसौष्ठयग्रं कृतवर्धनमुच्यते ।। तदेव गर्भगेहं तु वृत्तं वृत्तगहं भवेत् ॥ ३१ ।। एवं नवतन्तु(लं) ख्यातं दशभूमिमथोपरि ।। ३२ ।। इति काश्यपशिल्प नवभूमिविधानं षट्त्रिंशः पटलः ।
अथ शिः पटलः।
दशभूमिलक्षणम् ।
अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम् । पार्थप्रासादमानोक्तप्रमाणैवदियं तनम् ॥ १ ॥