________________
काश्यपशिल्पे सप्तत्रिंशः पटलः ।
कल्पयित्वा तु तत्तारं मनुभागविभाजिते । वेदांशं गर्भगेहं तु गृहपिण्डी त्रिभागया ॥ २ ॥ अलिन्द्रं त्वेकभागेन हारान्तरं शिवांशकम् । विन्याससूत्रयोरन्तमनुभागविभाजिते ॥ ३ ॥ तेष्ठे(ब्वे)कं कूटविस्तारं बा(शा)लादीर्घ तु तद्वयम् । एकांशं पञ्जरं व्यासं पादं हारान्तरं भवेत् ॥ ४ ॥ चतुष्कूटं चतुःशालं पञ्जरं षोडशान्वितम् । हारान्तरं च द्वात्रिंशत्कल्पयेदादिभूनले ॥ ५॥ तदूर्श्वभूमिविस्तारं त्रयोदशविभाजिते । एकांशं कण्ठकूटं तु शाला तद्विगुणायता ॥ ६ ॥ एकांशं पञ्जव्यासं शेषं हारान्तरं भवेत् । ऊर्ध्वभूविस्तृत भानुभागं कृत्वांऽशसौष्ठिकम् ।। ७ ।। द्विगुणं कोष्टदीर्घ तु अर्धाशं पञ्जरस्ततम् । पादं हारान्तरं ख्यातं तेषां संख्यादि पूर्ववत् ॥ ८॥ तस्योलतलविस्तारं रुद्रभागविभाजिते । पादपञ्जरविस्तारं शेषं पूर्ववदेव हि ॥ ९ ॥ तदूर्श्वभूदशांशे तु व्योमांशं कूटविस्तृतम् । कोष्ठं तद्विगुणायाम शेषं हारान्तरं भवेत् ॥ १० ॥ हारान्तरं त्रिभागेकं पञ्जर पासमुच्यते । तस्योर्वभूनवांशे तु शिवाशं सौष्ठिकं भवेत् ११॥ हारान्तरं दिमागेकं पञ्जरव्यासमुच्यते । तम्योर्श्वभूनवाशे तु शिवांश सौष्टिकं भवेत् ॥ १२ ॥ अत्यधाशं तु कोष्टं स्याच्छेषं हारान्सरं समम् । हारान्तरं दिमाग पञ्जरव्यासमुच्यते ।। १३ ।। माग्वत्संख्यासरुद्रांशं सभूमिरेवमेव हि । 'अष्टांशं विभत्सततलविस्तारमेव हि ॥ १४ ॥ कूटमेकांशमानन मध्ये शाला द्विभागया। पञ्जरख्यासमेकाशं हारान्तरं तदधेकम् ॥ १५ ॥ चतुष्कूटं चतुःशालं पञ्जराष्टक संयुतम् । हारान्तरं कलासंख्यां कल्प्येवं सप्तकं तलम् ॥ १६ ॥