________________
काश्यपशिल्पे षट्त्रिंशः पटलः । पञ्जरख्यासमेकांशमेकांशं फूटमानकम् ।
रान्तरं च द्वात्रिंशत्कल्पयेदादिभूतले ।। ७ ॥ एवमेव प्रकर्तव्यं द्वितीयं च महीतलम् । वृतीमहीतलस्या(यभूतलाया)मं मनुभागविभाजिते ॥ ८ ॥ अधाशं पञ्जरव्यासं शेषं पूर्ववदाचरेत । तद्रच्चतुस्तलं चैव कल्पये द्देशिकोत्तमः ॥१॥ पश्चभूमिविभागं तु भानुभागविभाजिते । एकांशं कूटविस्तारं.शाला तद्विगुणायता ॥ १० ॥ अर्घाशं पञ्जरव्यासं तस्याध हारयोत्तरम् । भानुशाला च कूटाभं पञ्जरं षोडशैव तु ॥ ११ ॥ तदूर्श्वभूविशालं तु वसुभागविभाजिते । एकांशं सौष्ठिकव्यासं मध्ये भागद्विशाल या ॥ १२ ॥ पारख्यासमेकांशमर्धाशं हारयोत्तरम् । तदूर्ध्वभूविशालं तु रसभागविभाजिते ।। १३ ॥ एकांशं फूटविस्तारं कोष्ठं तद्विगु गायतम्। पञ्जरल्यासम(शं शेष हारान्तरं भवेत् ॥ १४ ॥ सदूर्च भूविशालं तु गुणभागविभाजिते । मध्यांशं दण्डमानेन निर्गमं परिकल्पयेत् ।। १५ ॥ साविंशतिभागं तु कृत्वा देहा(गेहो दयं बुधः । पादोनचतुरंशं तु धरातलमिति स्मृतम् ॥ १६ ॥ पाचं सार्धसप्तांशं साग्न्यिंशं तु प्रस्तरम् । सप्ताशं चरणोच्चं तु सपादाग्न्यंशमंश(मञ्च)कम् ॥ १७ ॥ सार्धषट्काघ्रितुङ्ग तु गुणांशं मञ्चमानकम् ।। षड्भागं पादमानं तु पादोनारन्यंशमञ्चकम् ॥ १८॥ पादोच्चं सार्थभूतांशं सार्धपक्षांशमञ्चकम् । सपादपश्चभागं तु पादोत्से, समुच्यते ।। १९ ॥ प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम् ।। पादाधिक्यं द्विभागं तु प्रस्तरस्योदयं भवेत् ॥ २० ॥ पादोनपञ्चकं पादं प्रस्तरोचं द्विभागया। सार्धवेदांशकं पादं पादोनद्वयंशमञ्चकम् ॥ २१ ॥