________________
काश्यपशिल्पे षत्रिंशः पटलः । एकाकारतलं स्तम्भं शिवछन्दमुदाहृतम् । तदेव नत शाखाः स्युर्मञ्चमा:(का:) सौष्ठिफोमतम् ॥ ३२ ॥ घागीशमिति विख्यातं सर्वदेवप्रियावहम् ।। चतुरश्राष्टत्ताभं सौष्ठिको वा पुनः पुनः ॥ ३३ ॥ धिमानशिखरं कण्ठमष्टानं परिकल्पयेत् । सदष्टभागं विख्यातं धर्मप्रीतिकरं परम् ॥ ३४॥ तदेव कूटकोष्ठं च सचंबाविमव(मञ्चं वा विम)श्चकम् । समोन्नतं तथा कूटं नानाहस्तानताघ्रिकम् ॥ ३५ ॥ नानाचित्रविचित्रं तु तत्पर्वतमिति स्मृतम् । तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत् ।। ३६ ॥ नाम्ना कैलासमित्युक्तं मम प्रीतिकरं परम् । एवमष्टतलं ख्यातं नवभूमिमथोपरि ॥ ३७॥ . इति काश्यपशिल्पे वसुभूमिविधानं पञ्चत्रिंशः पटलः ।
अथ पत्रिंशः पटलः ।
नवभूमिः।
अथ वक्ष्ये विशेषेण नवभूमिविधि परम् । प्रासादमानवत्कार्य गेहस्य सदनं तरम् ॥ १॥ पक्षांशं विभजेत्तारं गुणांशं गर्भगेहकम् । द्विभागा गृहपिण्डी स्यादलिन्द्रं वेकभागया ॥ २ ॥ व्योमाशं कड्यविस्तारमलिन्द्रं तत्सम भवेत । हारव्यासं शिवांशेन कल्पयेत्कल्पवित्तमः ।। ३ ।। अथवा षोडशांशं तु प्रासादं विभनेत्समम् । युगांशं गर्भगेहं तु द्विभागा गृहपिण्डिका ॥ ४ ॥ अलिन्द्रं तु शिवांशेन व्योमांशं कुड्यविस्तृतम् । अलिन्द्रं व्योमभागेन हारावं तु तत्समम् ॥ ५॥ विन्याससूत्रयोरन्तः कालांशं विभत्समम् । एकांशं सौष्ठिकं व्यासं कोष्ठं तद्विगुणायतम् ।। ६ ।।