________________
काश्यपशिल्पे पश्चत्रिंशः पटलः । कूटकोष्ठादिसर्वाङ्गमादिभूमिमिवैव तु । तस्यो भूविशालं तु भानुभागविभाजिते ॥ १७ ॥ फटकोष्ठादिसर्वात. मानसंख्यादि पूर्ववत् । तदूर्श्वभूदशांशे तु कूटफोष्ठं च पूर्ववत् ॥ १८ ॥ हारान्तरमथा(शं लम्बपञ्जरसंयुतम् । तदूर्श्वभूविशालं तु वसुभागविभाजिते ॥ १९ ॥ कर्णफूटं तदेकांशं मध्ये शाला द्विभागया। पञ्जरव्यासमेकांशमीशं हारयोत्तरम् ।। २० ॥ चतुष्कूटं चतुःशालं वसुपञ्जरसंयुतम् । हारान्तरं तथा प्रोक्तं कल्प्यैवं षट्तले भवेत् ॥ २१ ॥ सदूर्श्वभूविशालं तु षड्भागं विभजेत्समम् ।। फूटमेकांशीमत्युक्तं मध्ये कोष्ठं द्विभागया ।। २२ ॥ अर्घाशं पञ्जरव्यासं शेषं हारान्तरं भवेत् । सदूर्ध्वभूविशालाढ्ये मध्ये दण्डन नीव्रकम् ॥ २३॥ फूटात्कोष्ठं तु नीनं वा मध्य शाला त्वनीव्रका । कूट कोष्ठमशेष तु समसूत्रग(त्रेण) एव वा ।। २४ ॥ ससप्तसप्ततिभागं कृत्वा हेमसमुच्चयम् । सार्धत्रिंशमधिष्ठानं सप्तांशं चरणोदयम् ।। २५ ॥ प्रस्तरं तु सपादाग्नि साधषटकाघ्रितुङ्गकम् ।। साविभागमञ्चोच्चं कल्पयेत्तु विशेषतः ।। २६ ।। सपादपञ्चभागं तु चरणोदयमीरितम् । प्रस्तरं साध्यपक्षांशं भूतांशं चरणोदयम् ॥ २७ ॥ सपादभागमञ्चं स्यात्पादं पादोनपञ्चकम् । मञ्चमानं द्विभागं तु सार्धं पादयुगांशकम् ॥ २८ ॥ सप्रिपादांशमञ्चोच्चं व्योमाशं वेदिकोदयम् । कण्ठपादेन पक्षांशं सार्धवेदांशशीर्षकम् ।। २९ ॥ कण्ठमानं समं स्तूपितुङ्गमित्यत्र कथ्यते । स्तूप्यन्तं तदुपानादि वेदाश्रं परिकल्पयेत् ॥ ३० ॥ श्रीष्ठ(अष्टा)अं च युगांशं स्यात्स्तम्भं प्रत्यल्पनासिकम् । शिखरे तु चतुर्नासियुक्तास्ते स्युर्महान्तराः ॥ ३१ ।।