________________
काश्यपशिल्प एकत्रिंशः पटलः ।
तदेवाश्रं वसुकोणं वा वृत्ताभं वागशिरः । नागराधुचितं कल्प्यं कर्णकूठं (टं)विशेषतः ॥ १४ ॥ शालानां पार्श्वयोर्विम ललाटाख्यं(ख्या)तु नासिका । शाला व्यासविशाला तु उन्नता मुखपट्टिका ॥ १५ ॥ स्वस्तूप्यग्रसमं प्रोतं शालानास्यश्रशी(सी)पकम् । शालादेयं त्रिभागेकं मुखनासिविशालकम् ॥ १६ ।। कटानां नासिकानीनं महानासिवदाचरेत।
स(स्तू )पित्र यसमायुक्तं नागरे भवने द्विज ॥ १७॥ का शा)लानां द्राविडानां तु स्तूपिस्याक्खित्तिसंज्ञ(द्वित्रिसंख्य)या ।
शालानां वैसराणां तु स्तूप्यकं वा चतुष्टयम् ॥ १८ ।। गलांशे कूटकोष्ठान देवताधास्तु कल्पयेत् । एवं हि कूटकोष्ठस्तु पञ्जरस्त्वधुनोच्यते ॥ १९ ।। उपानाग्रुत्तरान्तं तु नवभागविभाजिते । उपपीउमाशेन पक्षांशेन धरातलम् ॥२०॥ वेदांश चरणायाम मञ्चमध्यभागया। अर्थाशं वेदिकामानं कपोतानां गलोदयम् ।. २१ ॥ प्रतिबाजनसीमान्तं पञ्जरोच्चमुदाहृतम् । मासादस्य कपोतं तु यथाशोभाशनिर्गतिः ॥ २२ ॥ पञ्जरो नासिकाकार: कूटकोष्ठाकृतिस्तु वा। हस्तिपृष्ठविमानं स्याच्छिखरान्तमथापि वा ।। २३ ॥ एवं त्वनेकभेदेन पञ्जराकृतिरुरूयते । यथेष्टुं तेषु कर्तव्य हर्यकोष्ठेषु हर्म्यकम् ॥ २४ ॥ एकेन भूमिहर्येषु ..... .... ॥ एषमादितले(लं )कुर्यादन्तरप्रस्तरान्वितम् ।। २५ ।। मानसूत्रं तु निष्क्रान्तं युक्तमेव यदाचरेत् । । पञ्जरं नीवरहितं प्रस्तरो विशेषतः ॥ २६ ॥ कर्णफूटं समं वाऽथ त्रिपादं घाऽवधिस्तरम् । तव्यासभद्रशं (कं )तुङ्ग युक्त या पञ्जरमाचरेत् ॥ २७ ।।