________________
काश्यपशिल्प एकत्रिंशः पटलः।
अथकत्रिंशः पटलः।
वक्ष्येऽहं कूटकोष्ठानां पञ्जराणां तु लक्षणम् । द्वितलादितलान्तानां सममेव प्रकीर्तितम् ॥ १ ॥ तलं प्रत्युदितं व्यासं समानं कर्णकूटकम् । साधनाअं तु कोष्ठं स्याच्चतुष्पादकपादुकों ।। २ ॥ अधस्तात्स्तम्भवर्ग च प्रस्तरः कर्णशीर्षकम् । स्तूपिवर्गसमायुक्तों कूटकोष्ठौ विशेषतः ॥ ३ ॥ एवं चाऽऽदितले कुर्याद्धारातालं विनोव॑तः । कूटशालौ च कर्तव्यों पञ्जराश्च तथैव च ॥ ४ ॥ अर्ध्वपादोदयं सप्तभागं कुर्याद्विशेषतः । एकांश बेदिकोत्सेधं सार्धाशं गलमुन्नतम् ॥ ५ ॥ शीर्ष तु विगुणांशेन शेषं स्तूपयुदयं भवेत् । एवं तु कूटकोष्ठो द्वौ कल्पयेत्तु तलं प्रति ॥ ६॥ अथवा कूटकोष्ठानामुदयं तु वदाम्यहम् । उत्तरस्योर्ध्वसीमान्तं हंसमालोज़संम(सिंह)कम् ॥ ७॥ कपोतं वायसानं वा भागं पूर्ववदेव तु। सान्तरमस्तरं चेत्तु प्रस्तरस्योर्षसोमकम् ॥ ८ ॥ पेदिको समा(पं)वाऽय सान्तरप्रस्तरान्धिनः(तम्) । तदुमचं रुद्रधा भज्य एकांशं वेदिकोदम् ॥ ९॥ गुणांशं चरणोच्चं तु पादोनद्वघंशमञ्चकम् । स्सूप्युस्सेधं सपादांशं क्रमशः परिकल्पयेत् ।। १० ।। एवं हि कूटकोष्ठौ द्वौ कल्पयेच्छिल्पवित्तमः । कूटस्यास्य त्रिभागेकं स्वनासीविस्तृतं भवेत् ॥ ११ ॥ तव्यासत्रिचतुःपञ्चसप्त भागेन नीत्र कम् ।। कर्णकूटे कपोतं तु नासिकानिर्गमें भवेत् ॥ १२ ॥ चतुर्दिक्षु चतुर्णासि(नासी:)कूटानां परिकल्पयेत् । एकस्तूपिसमायुक्तं नीनवेशविमानवत् ।। १३ ॥