________________
७८
काश्यपशिल्पे त्रिंशः पटलः ।
विन्यास सूत्रयोरन्तर्थ्यास धर्मविभाजिते ।
कूटं तदेशं कोष्ठायामं तु तद्वयम् ॥ ४८ ॥ अर्धशं पज्जरण्यासं शेषं हारान्तरं भवेत् । चतुष्कूटाष्टकोष्ठं च पञ्चारम्भं तु संख्यया ॥ ४९ ॥ हारान्तरं चतुर्विंशत्कल्पयेत्प्रथमं तलम् | आलिन्द्रं जलपादं स्यात्प्रस्तारं तु घनीकृतम् ॥ ५० ॥ ऊर्ध्वभूनवभागं स्याच्छियांशं कूटविस्तरम् ।
कोष्ठं तद्विगुणायामं पञ्जरं शममानतः ॥ ५१ ॥ शेषं हारान्तरं ख्यातं क्षुद्रपञ्जरसंयुतम् । ऊर्ध्वभूमित्रिभागैकं मध्ये दण्डेन निर्गमम् ॥ ५२ ॥
चतुरश्रमधिष्ठानमष्टाश्रं मस्तकं गलम् । शिखरेऽष्टा महानासि स्यः) पादे प्रत्यल्पनासिका ॥ ५३ ॥ कर्णकूटं तु भागं स्यात्काष्ठं पोडशभिर्युतम् । नतकूटोन्नतं कोष्ठमन्तरमस्तरान्वितम् ।। ५४. ॥ क्षुद्रनीड टविंशं स्यान्नानाखं सूकरायचा (कृति) | नानाचित्रैर्विचित्रं तु तुङ्गं भागं तु पूर्वकम् ॥ ५५ ॥ जयावहमिदं ख्यातं सर्वदेवाईकं परम् । तदेव वर्तुलं कर्णे शीर्षान्तं सर्वमामिहान) कम् ॥ ५६ ॥ तदेव सान्तरं मञ्चं कूटकोष्ठं च पञ्जरम् । कूटानां शीर्ष कस्तूपिकुम्भं कर्णे च वर्तुलम् ॥ ५७ ॥ एवं स्यान्मूलभूमौ तु वस्व मध्यमे तले । युगा मध्यभूमौ तु कर्णकूटं मकल्पयेत् ॥ ५८ ॥ सुखावहमिदं ख्यातं सर्वदेवाईकं परम् । तदेव कूटकोष्ठं च अन्तरं प्रस्तरं विना ॥ ५९ ॥ व्यासोच्चसमसूत्रं तु सदस्य (दाज) गृहं भवेत् । तदेव शिखरं कण्ठं युगाश्रं धारकान्तकम् ॥ ६० ॥
इति काश्यपशिल्पे चतुर्भूमिविधानो नाम त्रिंशः पटलः ।