________________
काश्यपशिल्पे नवविंशः पटलः । नाना शुद्धमिमानं तु धर्मप्रीतिकरं भवेत् । तदेवाष्टाश्रवेदी तु वि(वृत्ताभं शिखरं गलम् । ३५ ।। विमानातिनाम्नातं सर्वदेवाहकं भवेत् । तदेव शिखरं कण्ठं युगाथं ब्रह्मकान्तकम् ।। ३६ ॥ तदेव सायताग्रं तु सपादं सत्रिभागिकम् । वसुभागं तु विस्तारमाया दशधा मजेत् ॥ ३७॥ एकांशं कूटविस्तारं शालाया द्विगुणायतम् ।। शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् ॥ ६८ ॥ षडष्टभागविस्तारमायामं चोर्ध्वभूमिके । एकांशं कूटविस्तारं कोष्ठदीर्घ त्रियंशकम् ॥ ३९ ।। अर्धाशं पञ्जरं व्यासं शेष हारान्तरं भवेत् । उर्वभूमीविस्तृतं च मी(चाग्नि)भाकै ध्य(गैःकण्ठ)भद्रकम् ॥४०॥ दयंशवृत्तं च वेदी च काष्ठ(ण्ठं वे शीर्षकं तया । चतुष्कूटाष्टशाला(लं) च भानुपञ्जरसंयुतम् ।। ४१ ॥ हारान्तरं चतुर्विशत्कल्पयेदादिभूतले। पतुष्ट चतु:शालं पञ्जराष्टकसंयुतम् ॥ ४२ ॥ षोडशान्तरसंयुक्तं शतसंख्यास्पनासिका(कम्) । ललाटं नासिकायुक्तं पार्श्वयोभंद्रनासिका ।। ४३ ।। तथैव नासिका पृष्ठे पृष्ठे सिंचोपमाचरेत् । " नानाधिष्ठानसंयुक्तं नानाचा िसमायुतम् ॥ ४४ ॥ सर्यालंकारसंयुक्तं हस्तिपृटमिदं भवेत् । मानसूत्रान्तरं व्यास नवभागविभाजिते ।। ४५ ॥ गुणांशं गर्भगेहं तु शिवांशं कुडयविस्तृतम् । परितोऽलीद्रु(लिन्द्र)मेकांशं हारं व्यासं शिवांशकम् ।। ४६ ।। एवं हि कल्पतेते(येत्ते षु कण्ठकूटं शिवांशकम् । मध्ये कोष्ठं गुणांशं स्यादेकांशः पञ्जरस्ततः ॥ ४७ ।। हारान्तरं तदर्धाशं कल्येवं प्रथमे भवि। अथवा पञ्जराणां तु अर्थाशं वा विधीयते ॥४८॥ शेष हारान्तरं ख्यातं परितस्त्वेवमाचरेत् । कोष्ठमध्ये त्रिदण्डेन महानासिरिनिर्गतम् ॥ ४९ ॥