________________
काश्यपशिल्पे नवविंशः पटलः । गलमानं द्विभागं स्याद् भूतांशं शिखरोदयम् । विभागं स्तूपितुङ्ग तु प्रोक्तमुद्भुतहर्म्यकम् ।। २० ॥ प्रासादस्य तु तुङ्गेन षडष्टांशविभाजिते । अधिष्ठानयुगांशं तु वस्वंशं चरणायतम् ॥ २१ ॥ मञ्चमानं तु वेदांशं तली(लि)पं सार्धसप्तकम् ।। सार्वत्रिभागमञ्ची सत्पांशं चरणायतम् ।। २२ ।। प्रस्तरोचं गुणांशं तु शिवांशं वैदिकोदयम् । द्विभागं गलमानं तु रसांशं शिखरोदयम् ।। २३ ।। द्विभागं तु शिखामानमेवं स्यात्सर्वदेशिकम् । अष्टकूटाष्टशालाभिः कलापञ्जरसंयुतम् ।। २४ ॥ दूर्णवत्यल्पनासाढ्यं जन्मादाग्रं युगांशकम् । नानाधिष्ठानसत्तानां नानापादेरलंकृतम् ।। २५ ।। शिखरे भानुनासादयं महानं चतुरष्टकम् । फूटकोष्ठोन्नतादीनि गारादाधुचितं भवेत् ॥ २६ ॥
स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज । चतु(म)हानासिकोपेत(नासिकादय)पल्पाटकविवर्जितम् ।। २७ ।।
स्वस्तिभद्रामिदं ख्यातं सर्वदेवप्रियावहम् । तदेव वृत्तशिखरं गलं वै वेदिका तथा ॥ २८ ॥ रुद्रकान्तमिति (दं ना)न्ना मम प्रीतिकरं परम् । तदेव शीर्षकोणेषु अल्पनासीदयाह्वयम् ।। २९ ॥ फरिपतं शिवकान्तं स्याच्छिवप्रीतिकरं गृहम् । तदेव वेदिका कण्ठं शीर्षकं च घटं तथा ।। ३०॥ पस्वयं (अं)कल्पितं यत्तद्विष्णुकान्तमिदं परम् । विन्याससूत्रयोरन्तं नवभागविभाजिते ॥ ३१ ॥ एकांशं कुटविस्तारं द्विभाग कोष्ठदीर्घकम् । कोष्ठं प्रति द्विकोष्ठं स्याद(शं पञ्जरं ततः ॥ ३२ ॥ शेषहारान्तरं ख्यातं कल्पयेत्कल्पवित्तमः । चतुकूटाठशालांशं भानुपञ्जरसंयुतम् ॥ ३३ ॥ तं चा(तचा)ल्पनासिकोपेतं वस्वग्रं शीर्षकं गलम् । महानारयष्टकोपेतं शिखरं तद्विजोत्तम ।। ३४ ॥