________________
७०
काश्यपशिल्पे नवविंशः पटलः ।
हारान्तरं तु संपाचं त्रिपादं वाऽथ पजरम् । ऊर्ध्वभूमित्रिभागकं मध्यभद्रं विधीयते ॥ ५ ॥ दण्डं सार्धद्विदण्डं वा मध्यभद्रस्य नीव्रक्रम | प्रासादस्योच्छ्रयं भानुद्वेगुणांशं विभाजिते ॥ ६ ॥ द्विभागं भूनलोत्सेधं वेदांशं चरणोदयम् । मञ्चमानद्विभागेन पादोनं चतुरंशकैः ॥ ७ ॥ पादाय (न) वह्निसाध्य मस्तरोचमुदाहृतम् ।. पादोचं सार्धचह्नयंशं सपादशं तु मञ्चकम् ॥ ८ ॥ अशं वेदिकामानं गलमानं शिवांशकम् । साशं तु शिखरं स्तूप्युच्च त्वेकभाजया ॥ ९ ॥ एवं हि कल्पितंगे शान्तिकक्ष (कंत्विति विद्यते । चतुर्विंशति चायामे तलोच्चं तु द्विभागया ॥ १० ॥ वेदांशं चरणायामं पक्षांशं मञ्चमानकम् | पादोनचतुरंशं तु पादायाममितष्यिते ॥ ११ ॥ सार्धंशं प्रस्तरोत्सेधं साध्यर्थं ह्युदयं भवेत् । अर्घाशं तु मञ्चच्चमध्याशं वेदिकोदयम् ॥ १२ ॥ शिवांश ग्रीत्रमानं तु गुणांशं शिखरोदयम् । सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् || १३ ॥ सप्तविंशतिभागं तु कृत्वा च सदनोदयम् । द्विभागं धरातलोत्सेधं युगांश चरणोदयम् ॥ १४ ॥ मञ्चमानं द्विभागेन वेदांश चरणायतम् । पादोनद्वयंशमञ्चोतलिपोच्चं तु तद्द्वयम् ॥ १५ ॥ सार्धंशिं प्रस्तरोत्सेधमेकांशं वेदिकोदयम् । द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् ॥ १६ ॥ शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम् । चत्वारिंशद्दयाधिक्यं भागं कृत्वा गृहोन्नतम् ॥ १७ ॥ अधिष्ठानत्रिभा [गा]र्ध सप्तांशं चरणोदयम् । तलोच्चसदृशं मञ्चं तलिपं सार्धषट्ककम् || १८ || गुणांशं प्रस्तरोत्सेधंभूभागं च पदंशकम् । सार्धद्वयंशं तु मञ्चश्चमेकांशं वेदिकोदयम् ॥ १९ ॥