________________
[पद-२, सूत्र. ७८ ]
5
श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
अनजिराविवहस्वर- शरादीनां मतौ । ३. २.७८ ॥
त० प्र०- अजिरादिवजितबहुस्वराणां शरादीनां च मतौ प्रत्यये दीर्घान्तादेशो भवति, नाम्नि । बहुस्वर - उदुम्बरावती मशकावती, वीरणावती, पुष्करावती, अमरावती; शरादिशरावती वंशावती, शुचीमती, कुशावती, धूमावती, अहवती, कवीवती, मुनीवती, मणीवती; वादवान् नाम गिरि:, बेटावान् नाम गिरिः । शर, वंश, शुचि, कुश, धूम, अहि, कपि, मुनि मणि वार्द वेट' इति शरादिः बहुवचन10 माकृतिगणार्थम्, तेन 'ऋषीवती, मृगावती, पद्मावती, बातावती, भोगावती' इत्यादि सिद्धम् । बहुस्वरशरादी नामिति किम् ? ब्रीहिमती, इक्षुमती, द्रुमती, मधुमती । बहुस्वरस्यानजिराविविशेषणं किम् ? अजिरवती, खदिरवती, खपुरवती, स्थविरवती, पुलिनवती, मलयवती, 15 हंसकारण्डववती चक्रवाकवती, श्रलंकारवती, शशाङ्कवती, हिरण्यवती अजिरादिराकृतिगणः । नाम्नीत्येव - वलयवती कन्या, शरवती तूणा ॥ ७८ ॥
श० म० न्यासानुसन्धानम् - अनजि० । अनजिरादिशब्दो बहुस्वरमात्र विशेषणं संभवात् न शरादीनाम20 सम्भवात्, तदाह- अजिरादिवर्जित बहुस्वराणामिति । अजिरादयो न पठयन्तेऽपि त्वाकृत्या गण्यन्ते तद् वक्ष्यति अजिरादिराकृतिगणः इति । शरः दयश्च गण्यते । तत्र क्रमप्राप्तत्वात् पूर्व बहुस्वरविषयाण्येवोदाहरणान्याह - बहुस्वरेति प्रकृत्य, उदुम्बरावतीति - उदुम्बरा वृक्षविशेषाः, 25 ते सन्त्यस्यामित्यर्थे " तदत्रास्ति" [ ६.२.७०] इति चतु
र्थ्यन्तर्गतार्थे "नद्यां मतुः " [ ६. २. ७२ ] इति मतुः "नाम्नि" [२. १. ९५] इति मस्य वः स्त्रियां ङीः अनेन दीर्घः । मशकावती मशकाः सन्त्यस्यामित्यादिरीत्या विग्रहादिः पूर्ववत् । वीरणावतीति वीरणास्तृणविशेषः, विग्र30 हादि: पूर्ववत् । पुष्करावतीति पुष्कराणि पद्मानि सन्त्य -
स्यामिति चतुरर्थ्या मतुः । अमरावतीत अमरा देवाः सन्त्यस्यामिति मत्वर्थे मतुः पुरीविशेषस्य नाम । उदुम्बरादयः सर्वे बहुस्वराः ।
अथ शरादीनुदाहरति- शरादीत प्रकृत्य, शरावतीति35 शरास्तृणजातयः, ते सन्त्यस्यामिति विग्रहः, नदीविशेषस्य
८५
40
नाम | वंशाः प्रसिद्धाः, ते सन्त्यस्यामिति - वंशावती । शुचीमतीति- शुचिरस्त्यस्यामिति विग्रहः, "नाम्नि " [२.१.९५] इति प्राप्तं वत्वं "नोम्र्म्यादिभ्यः " [२.१.९९] इति निषिध्यते । कुशावतीति कुशास्तृणविशेषाः सन्त्यस्यामिति विग्रहः, नगरीविशेषस्य नाम । धूमावती धूमः [ विशेषकः ] अस्त्यस्यामिति विग्रहः तान्त्रिकसम्प्रदाये दशसु महाविद्यासु प्रसिद्धका महाविद्या । अहीती अहयः सन्त्यस्यामिति विग्रहः, पुरीविशेषस्य नाम । कपीवती कपयः सन्त्यस्यामिति विग्रहः, गुहाविशेषस्य नाम मुनीवती मुनयः सन्त्यस्यामिति विग्रहः एवं मणीवतीत्यादयोऽपि विग्राह्यः । वार्दावान् नामगिरिरिति-वारि [ जलानि ] ददतीतिवार्दा मेघाः, ते सन्त्यस्मिन्निति वादवान् नाम पर्वतविशेषः । बेटावान् नाम गिरिः वेटन्ति इति वेटा:- वृक्षाः, "विट शब्दे" स्वादिः पक्षिद्वारा शब्दवत्वेन वृक्षाणां संज्ञेयमिति साम्प्रदायिकाः, ते सन्त्यस्मिन्निति वेटावान् ।
45
50
गणं निर्दिशति - शर वंशेत्यादिना । पाणिनीये तन्त्रे शरादिगणे [ पा० सू० ६.३.१२०. ] वार्द वेट - शब्दौ न पठयेते, सति प्रामाणिके प्रयोगे आकृतिगणत्वेन तयोः संग्रहः । स्वमतेऽपि शरादीनामा कृतिगणत्वमाह बहुवचनमाकृतिगणार्थमिति । शरदेरित्येकवचननिर्देशे करणीये 55 बहुवचननिर्देशस्य व्याप्त्यर्थत्वेनान्येषामपि संग्रह इति भावः । तेन संग्राह्यान् प्रसिद्धान् प्रयोगानाह ऋषीवतीत्यादिना, विग्रहादिः पूर्ववत् । बहुस्वरशरादीनामिति किमितिसामान्येनैव मतौ दीर्घो विधीयतामिति प्रष्टुराशयः । व्याव
माह-- त्रीहिमतीत्यादि । एषु सत्यपि मतौ न दीर्घो 60 भवति, विशिष्य विधानाभावे तत्रापि दीर्घः स्यादिति भावः । बहुस्वरस्यानजिरादिविशेषणं किमिति -- शरादिषु पठि तानामेव ग्रहणात् तत्र पर्युदासस्यानावश्यकत्वेन तेषु बहुस्वरशब्दपाठाभावेन च बहुस्वरविषय एवानजिरादिविशेषणं संभावितमिति तदपि न कार्यमिति प्रश्नाशयः । प्रत्यु- 65 दाहरति- अजिरवतीत्यादिना, अजिरमङ्गणं, तदस्त्यस्यामिति विग्रहः, खदिरो वृक्षविशेषः, खजुरोऽपि स एव, स्थविरो वृद्धः पुलिनं तटम् । मलयवतीति - मलयस्यादूरभवा नगरी, विद्याधरचक्रवर्तिनो जीमूतवाहनस्य पत्न्यपि मलयदतीति प्रसिद्धा, सापि मलयपर्वतसमीपस्थतपोवनप्रभवेति 70 हंसकारण्डववतीति- हंसकारण्डवौ पक्षिविशेषौ ताभ्यां युक्ता नदी प्रकृतशब्देनाख्यायते ; हंसकारण्डवतीत्यपि क्वचित् पठ्यते, तत्र कारण्डः कारण्डव एव :
तन्नाम्ना ख्याता |