________________
[ पाद-६, सूत्र - ६६ ]
श्रसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
15
नवैकस्वराणाम् ॥ ३. २. ६६ ॥
त० प्र० --- अहुवचनात् परतः स्त्रीति निवृत्तम्, सामान्येन तु विधानम्; वेकार्थे इत्यनुवर्तते । एकस्वरस्य डघन्तस्य तरादिषु प्रत्ययेषु, ब्रुवादिषु चोत्तरपदेषु स्त्रका 5 र्थेषु ह्रस्वोऽन्तादेशो वा भवति । स्त्रितरा, स्त्रीतरा; ज्ञस्य भार्या ज्ञी, ज्ञितमा, शीतमा; श्रस्यापत्यं स्त्री-ई, इरूपा, Farr; कस्य भार्या -की, विकल्या, कीकल्पा; जिब्रुवा, atagar; इचेली; ईचेली किगोत्रा, कीगोत्रा; स्त्रिमता, स्त्री मता; स्त्रिता, स्त्रीहता । एकस्वराणामिति किम् ? कुटी10 तरा, दुणीतमा, श्रामलकीतरा, बदरीतमा; कुवलीरूपा । उध इत्येव श्रीतरा, होतमा, धीरूपा । एकार्थ इत्येव स्त्रिया हता स्त्रीहता | नित्यवितामनेकस्वराणामपीच्छन्त्येके तन्मते - श्रामलकितरा, बदरितमा, कुवलिरूपा, लक्ष्मिकल्पा तन्त्रितरेत्याद्यपि भवति ॥ ६६ ॥
'अकारो वासुदेवः स्यात् इत्येकाक्षर कोषानुसारम् 'अ' शब्दो विष्णुवाची, अन्यार्थोऽपि स इति श्रूयते, अकार: सर्वनामेति प्रसिद्धेः, ततोऽपत्यार्थे इञि अकारस्य लुपि इरिति, ततः प्रशस्ते रूपपि श्रपि-स्त्रियां ङी, ईति, ततः कस्य भार्येति को ब्रह्मा, 40 ईरूपेति, हस्वे- इरूपा । धवयोगे ङीः, तत ईषदसमाप्ते कल्पपू । एषु ह्रस्वविकपपक्षे पुंवत्वं पिनिमित्तं कर्मधारयनिमित्तं वा न भवति, एषां सर्वेषामाख्यारूपत्वात् तद्धिताक कोपान्त्य पूरण्याख्याः" [ ३.२.५५] इति निषेधात् । 'ईरूपा' इत्यादौ पुंवत्वे ह्रस्व पक्षे च रूपसाम्यमेवेति न पुंवद्भावप्रवृत्तिफलम् । एक- 45 स्वराणामिति किमिति शेषस्य नवा” इत्यादिरूपमेव
!
!
श० म० न्यासानुसन्धानम् नबै० । नर्वकस्वरस्थेति एकवचनप्रयोगेऽपि सूत्राणां स्वत एव व्यापकत्वेन सकलैकस्वरस्थले प्रवृत्तेरव्याहतत्त्वेन बहुवचनेन निदेशो व्यर्थ इति शङ्कायामाह - बहुवचनात् परतः स्त्रीति निवृत्तमिति - बहुवचनस्य व्याप्त्यर्थत्वं बहुशो व्याख्यातम्, तत्र 20 प्रकरणवशालब्धस्य परतः स्त्रीलिङ्ग शब्दस्यैव सूत्रविषयत्वे
प्राप्ते सकलैकस्वरपरतः स्त्रीलिङ्गशब्देष्वेव सूत्रस्य प्रवृत्तिः स्यान्न तु परतः स्त्रीलिङ्ग स्वतः स्त्रीलिङ्गादिसर्वविधैकस्वरविषये इति तादृशव्यापकविषयतालाभार्थ सूत्रे बहुवचनं निर्दिष्टमिति बोध्यमिति भावः । परतः स्त्रीत्यस्य निवृत्ती 25 केन रूपेणोद्देश्यतेति जिज्ञासायामाह - सामान्येन तु विधानमिति - सामान्यतो ङयन्तस्यैकस्वरस्यानेन ह्रस्वो विधीयत इति भावः । त्र्येकार्थे इत्यनुवर्त्तते इति-अतिप्रसङ्गनिवृत्त्यर्थं स्त्रीवाचिनि समानाधिकरणे उत्तरपदे इत्यस्य सम्बन्धस्त्वावश्यक इति भावः । तथा च निष्पन्नं । दितामनेकस्वराणामिति--नित्यं
30. सूत्रार्थमाह-एकस्वरस्य ङयन्तस्येत्यादिना । स्त्रितरा स्त्रीतरेति-स्त्यायतोऽस्यां शुक्रशोणिते इत्यर्थे स्त्यायतेरीणादिकेन प्रत्ययेन 'स्त्र' शब्दो निष्पद्यते, ततो ङयां- स्त्रीति एकस्वरो ङयन्तः, तस्य तरादिषु ब्रुवादिषु च वैकल्पिके हस्वत्वे - स्त्रित
रेत्यादि । ज्ञितमा जानातीति ज्ञः, तस्य भार्या इत्यथ धव35 योगे ङीः, ततस्तमनादौ ज्ञितमेत्यादि । अस्यापत्यं स्त्रीति -
७५
।
सूत्रं क्रियाताम् येन पूर्वसूत्राभ्यामवशिष्टस्य परतः स्त्रीरूपस्य वा सर्वस्य शब्दस्य तरादिषु ब्रुवादिषु च विकल्पेन ह्रस्वो भवेदिति प्रष्टुराशयः । कुटीत रेत्यादि, कुटी-दुणी-आमलकी - बदरी - कुवलीशब्दाः स्वतः स्त्रीलिङ्गा अनेकस्वरा:, तेषा- 50 मप्येवं सति विकल्पेन ह्रस्वः स्यात्, एकस्वराणामिति कथने तु एषामनेकस्वरत्वान्न भवति ह्रस्वः, पूर्वसूत्रे तु परतः स्त्री" इति भणनादेषु ह्रस्वो नैव भवति । ङय इत्येवेतिएकस्वराणामिति बहुवचनेन परतः स्त्रीत्यस्य निवृत्तावपि पूर्वसूत्रात् ङय इत्यवश्यं सम्बन्धनीयमिति भावः । तत्फल- 55 माह-- श्रीतरेत्यादि — श्री — ह्री- धी. शब्दा न इयन्ता अपि तु कृदन्ता एव श्रयतीति - श्रीः ह्रिणीते इति - ह्रोः ध्यायतीति धीरिति विग्रहे क्विबन्ता एते सिद्धयन्तीत्येतेषु धातुसम्बन्ध्ये वेकारो न तु ङीकृत इत्येषां केनापि सूत्रेण ह्रस्वो नेष्टः, ङय इत्यस्याभावे तु स दुर्वारः स्यादेकस्वरत्वेन 60 प्रकृतसूत्रप्रवृत्तेः, स्वतः स्त्रीलिङ्गेष्वपि प्रकृतसूत्रप्रवृत्तेः स्वीकृतत्वात् । ' एकार्थे उत्तरपदे' इत्यपि स्वीकरणीयमेवेत्याह- एकार्थ इत्येवेति । व्यावत्थमाह- स्त्रिया हता-स्त्रीहतेति- - अत्र स्त्रीशब्दों न हतशब्देनैकार्थः, स्त्री हननकर्त्री, तत्कर्मीभूता चान्या, ततोऽन्त्र ह्रस्वव्यावृत्त्यर्थम् 65 'एकार्थे' इत्यावश्यकमिति भावः । मतान्तरमाह - नित्यदितः -- दकारेत्संज्ञका
।
'दं दास् दास-दाम:' प्रदेशा येषां ते नित्यदितः - नित्य - स्त्रीलिङ्गा, "स्त्रीदूत:" [ १.४.२० ] इति सूत्रेण नित्यस्त्रीलिङ्गादोदन्तात् परेषां ङितां वचनानां पूर्वोक्तादेशानां 70 नित्यं विधानात् । तादृशानामनेकस्वराणामपि केचित् वैकल्पिकं ह्रस्वमिच्छन्ति तेषां मते च वृक्षेऽर्थे आमलकीशब्दोऽपि नित्यस्त्रीलिङ्ग इति तन्मतसाधारण्येनंवाह-