________________
[ पाद-२, सूत्र- ४९ ]
।
!
पुंवद्भाव इति चेत् ? अत्राह - पूर्वस्य तु व्यवधानान्नभवतीति, अयमर्थः - अवश्यं पट्वीशब्दोऽपि भार्यया सह समानाधिकरणः, किन्तु “उत्तरपदे" इत्यत्र सप्तम्याऽव्यवहितपूर्वस्य कार्यं बोध्यते "सप्तम्या पूर्वस्व " [ ७.४.१०५ ] 5 इति परिभाषया, पट्वीशब्दश्च मृद्वोशब्देन व्यवहित इति तस्य न भवति पुंवद्भावः । अथ पदकृत्यं प्रदर्शयितुमारभते परत इति किमिति - केवल "स्त्री पुंवत् स्त्र्येकार्थेऽनूङ" इत्येवो च्यताम्, या स्वतः स्त्री तद्वाचकस्य शब्दस्य पुंसि रूपाभावादेव पुंवद्भावो न स्यादिति परत इति व्यर्थमिति । परत 10 इत्यस्यानुतौ स्त्री पुवदिति कथिते प्रकृतशब्दस्य पुंसि रूपा - भावेऽपि अन्यएव कश्चित् पु' लिङ्गः शब्दस्तत्र प्रयुज्येत तत्र “आसन्नः” [ ७. ४. १२० ] इति परिभाषया स्वरूपतः प्रत्यासनस्य शब्दस्यालाभेऽर्थतः प्रत्यासान्नास्तदर्थंका अन्ये शब्दा एव पुंलिङ्गास्तस्य स्थाने प्रयुज्येरन्, तथा च 'द्रुणीभार्यः, 15 वरटाभार्यः, वडवाभार्यः' इत्यादौ दुध्यादीनां पु'सि रूपाभा
।
वात् तदर्थकाः कूर्म - हंसा - श्वशब्दाः प्रयुञ्जीरन् । अत्र के चिदेवमाहु:--'दुणीभार्यः' इत्यस्य स्थाने 'डुलीभायें' इति प्रत्युदाहरणमन्यतन्त्रे दृश्यते, तदेव चोचितमिति प्रतिभाति डुलीशब्दोऽपि कूर्मस्त्रीवाचकः, स च केवलं स्त्रियामेव प्रयु20 ज्यते, दुणशब्दस्तु पुंसि स्त्रियां चेति, तस्य प्रकृतोपयोगित्वा
।
श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
भावात् । द्रुणशब्दस्य पु ंस्त्वं न वैयाकरणसम्मतमिति समाधानं तु न साधु, लिङ्गस्य लोकाधितत्वात् दृश्यते च लिङ्गविषये लोकव्यवहारस्यैवादरः शास्त्रकृद्भिः कृतः इति । तथाहि पातञ्जलं भाष्यम् - लिङ्गमशिष्यं लोकाश्रयत्वारिंल 25 गस्येति । उक्तं चैतदाचार्येणापि -
C
30
"नन्ता संख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ||" इति लिङ्गानुशासनीय कारिकान्तस्थबहुल शब्द व्याचक्षाणेन ॥
"द्रुणं चापे च खङ्गे च द्रुणो वृश्चिक-भृङ्गयोः । दुणी कच्छपिकायां च जलद्रोण्यामुदाहृता !!" इति लिङ्गानुशासनवृत्तिः । तथा च स्त्रीमात्रनियता भ्यां वरटा-बडवाशब्दाभ्यां साजात्येन डुलीशब्द एवेह पठितो लेखकप्रमादाद् द्रुणीति पाठः सभागत इति । अपरे त्वेवमाहु:
डुलीशब्दो नाचार्येण कोशादौ दर्शितः अभिधानचिन्तामणी 35 हि "कंच्छपी दुली" इति दुलीशब्दः कच्छपस्त्रीवाचको
४९
55
स्त्रीतोऽन्यत्र वर्तत एव न, तथा च द्रुणीभार्य इति पाठः साधुरेवार्थतः प्रत्यासत्तिप्रसङ्गादिति । न केवलमर्थतः प्रत्यासत्तिकृत एव दोषोऽपि तु शब्दतः प्रत्यासत्तिकृतोऽपीति 40 तदनुकूलं दृष्टान्तमाह-द्रोणीभार्यः, कुटीभार्यः, पात्रीभार्यः इति-- द्रोणीशब्द: कुल्यावाचको नित्यस्त्रीलिङ्गः, कुटीशब्दः क्षुद्रगृहवाचको नित्यस्त्रीलिङ्गः, पात्रीशब्दो भाजनविशेषार्थं नित्यस्त्रीलिङ्गः, यद्यप्येषां भार्याशब्देन पत्नीवाचकेन सह नैकार्थ्यं सम्भावना, तथापि तास्वौपचारिकं 45 भार्यात्वमारोप्य व्यवहारः समाधेयः, एषां न परतः स्त्रीत्वमपि तु स्वत एवेति परत इत्यस्याभावेऽत्रापि पुंवत्त्वप्रवृत्तौ सत्यां तत्तत्प्रवृत्तिनिमित्तकस्य शब्दस्य पुंस्त्वाभावेऽपि भिन्नप्रवृत्तिनिमित्तकस्यापि समानाकृतेः शब्दस्य प्रयोगः स्यात् । तथा च द्रोणीभार्य इत्यत्र द्रोणीशब्दस्य स्थाने काकाढकचतुष्ट- 50 यादिवाची द्रोणशब्दः प्रयुज्येत, कुटीशब्दस्य स्थाने घटवृक्षादिवाची कुटशब्दः प्रयुज्येत, पात्रीशब्दस्य स्थाने पात्रसामान्यवाचकपात्रशब्दश्च प्रयुज्येत । यद्यपि पात्रसामान्यवाचकः पात्रशब्दो न पुल्लिङ्गो नपुंसक एव तस्य प्रयोगात्, तथापि अर्धर्चादिगणे तत्य पाठस्य दृष्टत्वात् पुंल्लिङ्गत्वमपि तस्यास्त्येवेति स्वीकार्यम् । एवं चषु " आसन्न::" [ ७ ४. १०५. ] इति परिभाषया शब्दस्वरूपतः प्रत्यासन्नानां शब्दानामपि प्रयोगो मा भूदित्येतदर्थमपि परत इति कथनीयमित्याह - अत्र पुंवद्भावे शब्दतः प्रत्यासन्ना इत्यादिना । स्त्रीति किमिटि - स्त्रियां वर्तमानेन सहैकार्थः स्त्रीवाचक 60 एव शब्दः स्यादिति स्त्रीवाचक शब्दोपस्थापकं स्त्रीतिपद| भव्यावर्तकमिति प्रष्टुराशयः । प्रत्युदाहरणेनोत्तरमाह--- ग्रामणि कुलं दृष्टिरस्येति - कुलमिति ग्रामणीशब्दस्य नपुं - सकत्वं द्योतयितुम् अत्र नपुंसकेन ग्रामणीशब्देन सह स्त्रीलिङ्गस्य दृष्टिशब्दस्य सामानाधिकरण्यं स्वष्टमेव, तथा चात्र 65 पुंवद्भावे सति क्लीत्वप्रयुक्तो हस्वो निवर्त्तेतेति ग्रामणीदृष्टिरिति स्यात् । एवं - खलपूशब्दोऽपि क्लीबे वर्तमानो दृष्ट्या सह समानाधिकरणो भवतीति तस्यापि पुंवद्भावे दीर्घान्तस्यैव खलपूशब्दस्य श्रवणं स्यात्, तद्वारणाय स्त्रीग्रहणमावश्यकमिति भावः । स्त्र्येकार्थे इति किमिति -- 70 स्त्रियां वर्त्तमानं सद् यत् स्त्रीवाचकपूर्वपदस्य समानाधिकरणमुत्तरपदं तस्मिन्नित्यर्थकं 'स्त्र्येकार्थे' इति पदं किमर्थम् ? सामान्येनोत्तरपदे एवं प्रवर्ततामिति प्रश्नाशयः । उत्तरयति कल्याण्या वस्त्रं - कल्याणीवस्त्रमिति अत्र षष्ठीतत्पुरुषेऽपि
स्यादिति तद्वारणाय 'स्त्र्येकार्थे इत्यावश्यकमिति 75
दर्शित: उणादौ च “दुलि: कच्छपः" इति पुंस्यपि दर्शितः स एव ङधा दुलीति भवति । किञ्च कच्छपार्थे द्रुणशब्दोपुवत्त्वं
७