________________
-२६०
कलिकाल सर्वज्ञत्री हेमचन्द्रसूरिभगवत्प्रणीते
[ पा० ३, सू० ६५ ]
|
उदाहरति- यजों- यजते इति- यज्धातुरीकारेत् देव- पूजाद्यर्थः, देवपूजादेः फलं हि देवपरितोषः स्वर्गादिलाभश्व - प्रधानम्, अप्रधानं च याजकानां दक्षिणादिलाभ:, तत्र यजमानस्य स्वर्गादिफलभाक्तूवे विवक्षितेऽनेनात्मनेपदं भवति । 5 डुपचष् - पचते इति- अत्र 'हु-ई-प्' एते त्रयोऽप्यनुबन्धा भिन्नभिन्न प्रयोजनाः, तत्रेकारेत्त्वेनात्मनेपदमात्रमत्रोदाहार्यम्, पचधात्वर्थफलमोदनादिसम्पत्ति:, तेन फलेन यत्र पक्ता सम्बद्धस्तत्रानेनात्मनेपदं भवति । लक्षीण्- लक्षयते इति - "लक्षीण् दर्शनाऽङ्कनयोः" इति चुरादी पठ्यते तत्र यत्र 10 दर्शनमङ्कनं स्वार्थमाचर्यते तत्र दर्शनफलस्य ज्ञानस्य, अङ्कनफलस्य परिचयस्य कर्त्रा सम्बन्धस्तत्रात्मनेपदं भवति । ईकारेत उदाहृत्य गकारेत उदाहर्तुमाह- डुकृग्- कुरुते इति- उत्पादनार्थः कृग् गकारेत्, तत्र क्रियाफल कार्योत्पत्ति यदि कर्तृ सम्बद्धा तदाऽऽत्मनेपदमनेन भवति । दुडुभ्रंग्क्15 बिभृते इति - अत्र चत्वारोऽनुबन्धाः प्राप्तिस्विक प्रयोजनाः, प्रकृते गिवनिबन्धनमात्मनेपदमात्र मुदाहार्यम्, बिर्भात धरणार्थ: पोषणार्थश्व जुहोत्यादिः, वारणपोषणफलं यदा कर्त्रा सम्बद्धं तदाऽऽत्मनेपदमन्यथा परस्मैपदम् । कण्डूग्- कण्डूयते इति- यत्रात्मनो गात्रविघर्षणम्, आत्मार्थं वा गवादेर्गात्र20 विघर्षणं तत्रात्मनेपदं भवति । णिग्प्रत्ययेऽपि गकार इत्, fuगन्तस्यापि च धातुत्वं क्रियावाचकत्वनिबन्धनम्, ततश्च पातोगित्वं भवतीति यत्र प्रेरणाविषयीभूतगमधात्वर्थ स्थानान्तरप्रासिरूपफलेन कर्तुः सम्बन्धस्तत्रात्मनेपदम्, गतिश्चलनाद्भित्रेति न "चल्याहार०" [ ३.३. १०८ ] इति 25 परस्मैपदम् । पदकृत्यमाह - ईगित इति किमिति - पूर्वसूत्रे
व्यावर्त्यमाह - यजन्ति याजकाः इत्यादिना, याजका दक्षिणादिप्राप्तिफलेन यज्ञे प्रवर्त्तमाना यजन्ति- यज्ञं कुवन्तीति तदर्थः, अत्र यज्ञस्य प्रधानं फलं स्वर्गस्तेन च न याजकानां सम्बन्ध इति प्रधानफलवत्कर्तुं रभावादिह परस्मैपदमेव भवति नात्मनेपदमिति, फलवतीत्यस्य सम्बन्धाभावे तद्दु- 45 वारम् । एवं पचन्ति पाचकाः इति- पाचका:- भृति। प्रातिकामनया पाके नियुक्ता न तत्फलेनौदनेन सम्बद्धत्वेन विवक्षिता इति फलवत्कर्तु रभावादिहापि परस्मैपदमेव भवति सत्यपीदित्त्वे । गितं प्रत्युदाहरति- कुर्वन्ति कर्मकराः कर्मकरा भृतिदानेन कर्मणि नियुक्ताः कुर्वन्ति, यत्र कार्ये नियु- 50 क्तास्तत् सम्पादयन्तीति प्रयोगार्थः, अत्र धात्वर्थ प्रधानफलेन कार्येण न तेषां सम्बन्धोऽपि तु भृतिमात्रेणेति न भवत्यात्मनेपदम् । केवलान् धातून् प्रत्युदाहृत्य प्रत्ययान्त गितं धातुं प्रत्युदाहरति- गमयत्यश्वं दमकः इति - दमकोऽशिक्षितस्याश्वस्य दयिता- दमनपूर्वक तत्तद्वतिविशेषशिक्षकः, अश्वं 55 समयति- गत्यर्थं प्रेरयतीति प्रयोगार्थ:, अत्र दमकोऽपि अश्वस्वामिस्त्रीकृतस्य पारिश्रमिकरूपफलस्यैव स्वामी न तु तस्याश्वगत्या किमपि स्थानान्तरप्राप्त्यादिफलमीशितव्यमिति न भवति तस्य फलवत्त्वमिति तत्कर्तृकाद् गमयतेर्नात्मनेपदम् । प्रत्युदाहरणेषु कर्तुः फलवत्त्वाभावं संगमयति- 60 नात्र स्वर्गीदनादि प्रधानं फलमिति यजन्ति याजका इत्यत्र स्वर्गः प्रधानं फलम्, पचन्ति पाचका इत्यत्रोदनं प्रधानं फलम् कुर्वन्ति कर्मकरा इत्यादी कृष्यादिकार्य प्रधानं फलमादिपदग्राह्यम् तच्च कर्त्रा याजकादिना न सम्ब ध्यते - स्वत्वेन नान्वेति । ननु दक्षिणा वेतनादिप्राप्तिरूपं 65 फलं तु तत्रापि याजकादिरूपे कर्तरि सम्बध्यत एवेत्यस्त्येव फलवत्कर्तृत्वं तत्रापीति चेदाह - यच दक्षिणा वेतनादि सम्बध्यते न तत् क्रियायाः प्रधानं फलमिति - यजन्ति याजका इत्यत्र दक्षिणा, पचन्ति पाचका इत्यत्र वेतनम्, कुर्वन्ति कर्मकरा इत्यत्र भृतिरित्यादिपदग्राह्यं यथायोगं फलं 70 यत् तेषु स्थलेषु कर्तृ सम्बद्धमस्ति तत्र प्रधानं फलमपि गौणमिति भूम्नि अनिशायने वा मत्वन्तेन फलवच्छब्देन तेषां न ग्रहणम्, प्रधानं फलं चेतरक्रियासाध्यत्वे सति तत्क्रियामात्रसाध्यम्, तथाभूत च दक्षिणादि नास्ति कार्यान्तरेणापि तल्लाभस्य संभवात् । इदं च फलं न वस्तुत एव 75 कर्तरि विद्यमानमेव आत्मनेपदोपयोगि, अपि तु वस्तुतोऽविद्यमानमपि कर्तृ सम्बद्धत्वेन विवक्षितं चेत् तदा भवितव्यमात्मनेपदेनेत्याह- तच्चेतत् स्वार्थलक्षणं फलं सदसद् ar विवक्षानिबन्धनमेव ग्राह्यमिति- अत्र स्वपदेन क्रियावाचकस्य आत्मनेपदप्रकृतिभूतस्य धातोर्ग्रहणम् उत कर्तुं रिति 80
यत् फलवतीत्युक्तम्, तस्य पृथगेव योगः कर्तव्यः पूर्वसूत्रे च तत् णिगतैस्तैः सह सम्बद्धम्, योगविभागसामर्थ्याच्च पृथगारब्धे फलवतीति योगे गिग इत्यस्यासंबन्धात् सामान्यत एव सर्वस्माद् धातोः फलवति कर्तरि विवक्षिते आत्मनेपदं 30 विधीयताम्, "ईगितः" इति विशिष्य ईकारेतो गितश्व फलवति कर्तर्यात्मनेपदविधानमनर्थकमिति प्रष्टुराशयः । सामा न्येन फलवति कर्त्तरि आत्मनेपदविधानेऽव्याप्तिदोषाभावेऽयतिव्याप्तिः स्यादित्याह- गच्छति, चोरयतीति गच्छते रपि क्रियाफलस्योत्तरदेशसंयोगस्य कर्तृगामित्वेन विवक्षणे 35 आत्मनेपदं स्यादिष्यते तु नैव, एवं स्वार्थ णिजन्ताच्चुरेरपि
फलवति कर्तरि विवक्षिते तत् स्यात् ईंगित इति कथने तु न भवति । यद्यपि अन्यः स्वार्थणिजन्तान्चुरादेरपि कर्तृगामिनि क्रियाफले [ फलवति कर्त्तरि ] आत्मनेपदमिष्यत एव परं स्वमते नेष्यत इति प्रत्युदाहरणसंभवोऽस्त्येव । 40 फलवतीत्यस्य सम्बन्ध आवश्यक इत्याह- फलवतीत्येवेति ।