________________
२३८
कलिकालसर्वज्ञ श्री हेमचन्द्रसूरिभगवत्प्रणीते
व्यक्तवाक्त्वाभावेन न भवत्यनेन विकल्पेन पूर्वसूत्रेण नित्यं वा आत्मनेपदम्, व्यक्तवाचामिति पदस्य सम्बन्धाभावे चहानेन सूत्रेणात्मनेपदं दुर्वारम् । सहोक्ताविति पदस्यापि प्रकृतसूत्रेऽनुवृत्तिरावश्यकेत्याह- सहोक्तावित्येवेति । 5 व्यावर्त्य माह- मौहूर्तो मौहूर्त्तेन सह क्रमेण विप्रवदतीति- अत्र व्यक्तवाचां विवादस्य सत्त्वेऽपि क्रमेण कथने संभूय कथनरूपस होत्यभावान्न भवत्यात्मनेपदम्, तत्पदानुवृत्त्यभावे च दुर्वारमेवेति भावः । ननु मा भूदनेन सूत्रेण पूर्वेण वाऽऽत्मनेपदम् " दीप्ति-ज्ञान०" [ ३. ३. ७८ ] इति 10 पूर्वतरेण सूत्रेणात्मनेपदं कुतो न भवति विरुद्धार्थत्वेन नानामतिरूपविमतेः सत्त्वादिति चेदाह - विरुद्धाभिधानमात्र मिह विवक्षितं न तु विमतिपूर्वकमिति मौहूर्तयोः कथनमर्थतः परस्परविरुद्धमस्तु न तु तयोः परस्परविरुद्धार्थ प्रतिपादनेच्छारूपा विमतिः पूर्वमस्ति, पूर्व विमतेरभावाच्च 15 तस्या धात्वर्थहेतुतयाऽवस्थानमिति न भवति तत्सूत्रप्रवृत्तिः । तदाह- तेन विमतिलक्षणमप्यात्मनेपद न भवतीति किश्व प्रतिपादनरीतेः परस्परविरुद्धत्वे तयोर्मतेर्भेदाभावेन नानामतिरूपाया विमतेरिह साक्षादपि धात्वर्थत्वं नास्तीत्यदोष इत्यवधेयम् । ३. ६.८०. ॥
20
अनोः कर्मण्यसति ॥ ३.३.८१. ।। त० प्र० - व्यक्तवाचामित्येवाऽनुवर्तते । व्यक्तवाचां सम्बन्धिन्यर्थे वर्तमानादनुपूर्वाद् वदेः कर्मण्यसति कर्तयात्मने - पदं भवति । अनुः सादृश्ये पश्चादर्थे वा । अनुवदते चंत्रो मंत्रस्य यथा मंत्रो वदति तथा चत्रो वदतोत्यर्थः अनुवदते 25 आचार्यस्य शिष्यः, आचर्येण पूर्वमुक्ते पश्चाद्वयतीत्यर्थः । कर्मण्यतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येवअनुवदति दोणा । कथं 'वाधिक पडिको न सबवेते' इति, मियो विरुध्येते इत्यर्थ; विमतिविवक्षायां भविष्यति । अकर्मकादित्यनुक्त्वा 'कर्मण्यसतीति' इति निर्देश उत्तरत्र 30 शब्दे स्वेऽङ्गे च कर्मणीति लाघवेन प्रतिपत्त्यर्थः ॥८१॥
[ पा० ३, सू० ६१]
|
षष्ठी विधेया । तथा च सूत्रार्थमाह- व्यक्तवाचां 40 सम्बन्धिन्यर्थे वर्तमानादिति वदेति घातुस्वरूपेण व्यक्तवाचां सम्बन्धाभावेऽपि तदर्थेन सह क्रियाकर्तृभावः सम्बन्धोऽस्तीति तत्सम्बन्धिन्यर्थे वदेवंत्तमानत्वं सुघटम् । अनोरुपसर्गस्यानेकार्थतया प्रकृते ग्राह्यावर्षावाह- अनुः सादृश्ये पश्चादर्थे वेति- सादृश्यं च वदन [ वदिक्रिया ]- 45 निरूपितं न तु मंत्रादिनिरूपितम् एवं पश्चादर्थोऽपि वदिक्रियासम्बद्ध एवेति मंत्रादिना सम्बन्धाभावान्नाव्ययीभावसमासप्रसङ्गः । अनुवदते चैत्रो मंत्रस्येति- अत्र सकर्मकस्यापि वदेः कर्मणः प्रयोगाभावादविवक्षितक मंतयाऽकर्मकत्वेन वाऽनेनात्मनेपदम् । प्रयोगार्थमाह- यथा मंत्रो वदति तथा 50 चत्रो वदतीत्यर्थः इति - चैत्र-मैत्रयोरुभयोर्व्यक्त वाक्त्वमिति भवति लक्षणसङ्गतिः । सादृश्यार्थे उदाहृत्य पश्चादर्थे उदाहरणमाह- अनुवदते आचार्यस्य शिष्यः इति पश्चा| दर्थत्वं विवृणोति-आचार्येण पूर्वमुक्ते पश्चाद् वदतीत्यर्थः । पठितार्थावगतिः शिष्यास्याभून्नवेति परिज्ञानाय आचार्यो- 55 क्तानुवादः शिष्येण कार्य इति प्राचीनपरम्परा, सेह प्रयोगेण गम्यते, पश्चादर्थेऽनोः सत्त्वात् तत्पूर्वकाद् व्यक्तवाक्शिष्यसम्बन्धिन्यर्थे वर्त्तमानाद् वदेरात्मनेपदमभूत् । कर्मण्यसतीति किमिति यत्र सादृश्ये पश्चादर्थे वाऽनोः प्रयोगस्तत्र वदेः प्रायोऽकर्मकत्वमेवेत्यभिमानेन प्रश्नः । नायं नियमो 60 यत् सर्वत्र सादृश्यार्थकान् पञ्चादर्थकाद् वानोः परस्थ वदेर कर्मत्वमेवेति उक्तमनुवदतीत्यादौ तददर्शनादिति तत्रात्मनेपदं मा भूदित्येतदर्थ कर्मण्यसतीत्यावश्यकमिति भाव: । व्यक्तवाचामित्येवेति पूर्वतः सहोत्तावित्यस्यासम्बन्धेऽपि लक्ष्यानुरोधाद् व्यक्तवाचामित्यस्य सम्बन्ध 65 आवश्यक इति भावः । तद्वयावर्त्य माह- अनुवदति वोणेति मृदङ्गस्येति अन्यद् वा सम्बन्धिपदमध्याहार्यम्, यथा मृदङ्गः स्वरविशेषमाश्रित्य वदति तथा वीणाऽपीति प्रयोगार्थः, तत्र व्यक्तवाक्सम्बन्धिन्यर्थे वदेर्वत्र्तमानत्वाभावान्न भवत्यात्मनेपदम्, व्यक्तवाचामित्यस्य सम्बन्धाभावे च स्या- 70 देवेति तत्सम्बन्ध आवश्यक: ।
श० म० व्यासानुसन्धानम्- अनो० । वदः इति सम्बध्यते व्यक्तवाचामिति च तत्रैकयोगनिर्दिष्टन्यायेन सहोतावित्यपि प्रकृतेऽनुवर्त्तेतैवेति शङ्काऽपाकरणायाहव्यक्तवाचामित्येवानुवर्तते इति - अत्र च मूल व्याख्यान35 मेव, अथवा 'व्यक्तवाक्सहोतो' इति समासेन निर्देशलाघवात् । कर्तव्ये व्यासेन निर्देश एवं तावन्मात्रस्यापि क्वचित् सम्बन्ध | सूचयति । यद्यपि षष्ठ्यन्तस्य वदिना सम्बन्धो न घटते तथापि धात्वर्थद्वारकक्रियाकर्तृभावरूपविषयसम्बन्धे "शेवे" [ २३.८. ] इति व्यक्तवाचां वदेरिति सम्बन्त्रमाश्रित्य
वदेरात्मनेपदविधानप्रकरणस्य परिसमाप्ततया, तद्विषयं भाष्यप्रयोगमसङ्गच्छमानं शङ्कते - कथं वाचिकषडिकौन संवेदेते इति- "न पदान्तद्विर्वचनवरे यत्रोपस्वरसवर्णानुस्वार दीर्घजवविधिषु" [ पा०सू० १.१.५८ ] इति 75 सूत्रे भाष्ये विधिशब्दो भावसाधनः कर्मसाधनो वा [ विधानं विधिरित्यर्थः, विधीयते यः स विधिरित्यर्थो वा ] इति पक्षद्वयगुणदोषविचारप्रसङ्गं भावसाधनपक्षे षडिक इत्यस्य सिद्धो वाचिक इत्यस्यासिद्धिः कर्मसाधनपक्षे वाचिक इत्यस्य