________________
[ पा० १, सू० २]
निरष्ठीवत्' इत्यत्र धातुना खाडित्यस्य न योगः कस्य तर्हि ? इतेरिति न भवति' इति, भस्यायं भावः - धातोरित्यधिकारादनुकरणस्य धातुना योगेऽयं विधिः, योगे हि तत् तस्येति भवति, योगश्च शब्दानामर्थद्वारकः, यदर्थो यदर्थेन युज्यते स 5 तेन युक्त इत्युच्यते, न चेह 'खाइ' इत्यस्य धातुना योगोऽस्ति, अत्र हि 'खाड्' इत्यर्थाद् व्यावृत्तखरूपे तिष्ठन्ननर्थक एवेतिना परामृश्यते, यथा-'गवित्ययमाह' इति, अनुकार्याऽनुकरणयोमैदाश्रयणेन यद्यत्रानुकार्येणार्थेणार्थवत्ता स्यात् तदा स्याद्युत्पत्ती 'गोरित्ययमाह' इति स्यात्, अतोऽयमनर्थकः, तद्वदयमपि 'खाट्' 10 शब्दः, इतेस्तु तत्परामर्शिनो धातुना योगो न तस्येति न भवति गतिसंज्ञाप्रसङ्गः, अर्थवत्तायामपि न सोऽर्थः 'खाट्' शब्देन धातुयोगेनोच्यते, केन तर्हि ? इतिना, अतस्तदर्थमनितिपरमिति न वक्तव्यम् । यत् त्वेके प्राहुः - ' इति खाट् कृत्वा निरष्ठीवत् ' इत्येषोऽपि प्रयोगो हृदयते, तत्र इतेः परस्यानुकरणस्य नेष्यते 19 गतिसंज्ञा, तदर्थं यतितव्यमिति, तत्रान्ये प्राहुः - अनुकरणसम्बन्धेषु पुरस्तादुपचारत्वमितिकरणस्य नातिप्रसिद्धम्, यथाऽन्यत्र - इत्युपाध्यायः कथयति, इति वेदान्तिनो वदतीति । अन्येषां पुनरिष्टेरियत एवात्र गतिसंज्ञेति खाट्कृत्येत्येव भवितव्यमिति । क्रमप्राप्तं विप्रत्ययान्तमुदाहर्तुमवतारयति - च्य्यन्तेति - अथ 30 स्व्यन्तमुदाहरणीयमित्यर्थः । उदाहरति- शुक्लीकृत्य, घटीकृत्य, इति - "शुच शोके” अतः शोचति मनोऽत्रेति “ऋज्यजि०” [ उणा० ३८८. ] इति किति रप्रत्यये लत्वे न्यादित्वात् कत्वे च- 'शुक्ल' इति, यद्वा "शुक गती" अतः "शुक-शी ०" [ उणा० ४६३.] इति लप्रत्यये- 'शुक्ल' इति, 25“घटिष् चेष्टायाम्” अतः “अच्” [ ५. १. ४९. ] इत्यचि
|
|
“घटाघाट०” [ उणा० १४१ ] इति उप्रत्ययान्तनिपातने । वा - 'घट' इति, अशुक्रं शुकं करोति, अघटं घटं करोतीति "कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे चिचः” [७.२.१२६.] इति विप्रत्यये "ईश्वाववर्णस्य ” [४. ३. १११.] इत्यवर्णस्य30 कारे ध्वेरप्रयोगित्वात् “अप्रयोगीत् ” [१.१.३७.] इति सर्वापहारे, गतिसमासे क्त्वायाः 'यप्' इत्यादेशेऽस्य पित्त्वाद् “ह्रस्वस्य तः पित्कृति” [ ४. ४. ११३. ] इति तागमे च - शुकीकृल्य घटीकृत्येति ।
'कलिकाल सर्वज्ञ श्री हेमचन्द्रसूरिभगवत्प्रणीते :
40
१५
द्विर्भावे च पटत् पटत् डाच्' इति स्थितौ “डाच्यादौ” [.७. २ १४९ ] इति पूर्वतकारलोपे “डित्यन्त्यस्वरादेः” [२. १. ११४.] इत्यतो लोपे, डाचि डकारचकारयोरित्त्वात् 'आ' इति शेषे, अनेन गतिसंज्ञया गतिसमासे त्वो यवादेशे तागमे च - पटपटाकृत्य । ननु 'पटत्' इति व्यक्तवर्णमव्यक्तवर्णस्य कथमनुकर - 45 गम् ? अनुकरण स्यानु कार्यसदृशत्वात्, अन्यथातिप्रसङ्गः स्यादिति चेत् ? उच्यते-अव्यक्तवर्णस्यापि कथञ्चिद् ध्वनिमात्र सादृश्याद् व्यक्तवर्ण मनुकरणं भवति । उक्तं डाजन्तस्यानुकरण प्रकृतिकमुदाहरणमथाननुकरणप्रकृतिक मुदाहरणमाह - सपत्राकृत्य इति“षहिं मर्षणे" अतः " अ:" [ उणा० २. ] इत्यप्रत्यये - सह 50 तुल्ययोग-विद्यमानयोः, “पतं गतौ” भतः “हु-या-मा०” [ उणादि० ४५१. ] इति त्रप्रत्यये - पत्रं शरः, लक्ष्ये शराः पतन्त्यनेनेति व्युत्पत्त्या 'पत्रं शरपुङ्खगतो बर्ह' इति तत्त्वबोधनीकृत, सह पत्रमनेनेति “एकार्थं चानेकं च” ३. १. २२.] इति बहुव्रीहिसमासे “सहस्य सोऽन्यार्थे” [ ३. २. १४३. ]55 | इति सहस्य सादेशे - सपत्रः, तं कृत्वेति “सपत्र निष्पत्रा०' [ ७.२.१३८. ] इति डाच्प्रत्ययेऽन्त्यस्वरादिलोपे प्रागवद् गतिसंज्ञा-समास-यबा देश-तागमेषु - स --- सपत्राकृत्य, शरमस्य शरीरे प्रवेशयित्वेत्यर्थः । अथोपसर्गमुदाहर्तुमवतारयति - उपसर्गेति- अथोपसर्गोंदा- 60 हरणं दातव्यमित्यर्थः । उदाहरति-प्रकृत्य, पराकृत्य, प्रकृतं पराकृतम्, इति- “प्राक् पूरणे” अतः “वचित्” [ ५.१. १७१.] इति डेऽन्त्यस्वरादिलोपे - '' इति, "पृश् पालनपुरणयोः" अतः “समिण् - निकषिभ्यामाः " [ उणा० ५९८. ] इति बहुलवचनादाप्रत्यये गुणे च- 'परा' इति, प्रकृत्य - प्रस्तुत्य, 65 पराकृत्य-निरस्य, अत्र प्रागवत् गतिसंज्ञा-समास-यबादेशतादेशाः प्रकृतं प्रस्तुतम्, पराकृतं निरस्तम्, अत्र के परे गतिसंज्ञा समासश्च ।
رد.
डाच्प्रत्ययान्तमुदाहर्तुमवतारयति - डाजन्तेति । उदाहरति35 पटपटाकृत्य इति- "अट पट० गती" अस्य "पटच्छपदादयोऽनुकरणाः” [ उणा० ८८३.] इति कत्प्रत्ययान्तनिपातनात् ' ‘पटत्' इति, अयं कस्यचिद् विशेषस्य श्रुतिप्रत्यासत्याऽनुकरणशब्दः, अनुकरणमपि हि साध्वेव कर्तव्यं, न यत्किञ्चित्, यथानक्षरमिति शिष्टाः स्मरन्ति । 'पटत्' इत्यनुकरणं कृत्वा इति
अथोर्यादयश्यन्ता एव किं न विज्ञायन्ते, तथा सति सूत्रे ऊर्यादिग्रहणं गणपाठश्च न कर्तव्यो भवति, नैवं शक्यं, 70 च्व्यर्थाभावादवर्णान्तानां चेत्वप्रसङ्गात् । तेभ्य्यक्षयर्थप्रतीतिरेव, अयमत्रार्थी नात्र च्व्यर्थ इति प्रदर्शयितुं गणं सार्थ पठति ऊरी उररी अङ्गीकरणे विस्तारे चेति-अङ्गीकरणम्-अभ्युपगमः, एकत्रावस्थितस्य स्वावयवैरनियतदिग्देशव्याप्तिः - विस्तारः, ऊरीकृत्य उररीकृत्य - अङ्गीकृत्य विस्तारं कृत्वा वेत्यर्थः, उरूरी 75 अङ्गीकारे उरुरीकृत्य - अङ्गीकृत्येत्यर्थः । एते त्रयो भृशार्थप्रशंसयोरपि 'ऊरी उररी उरुरी' इति त्रयः शब्दाः अपिशब्दात् खोक्तार्थसमुच्चयः, ऊरीकृत्य भृशं सुष्ठु वा कृत्वेत्यर्थः । एषामूर्यादीना पाठादेव साधुत्वं यतो गणशब्दानां गणपाठातू
"अव्यक्तानुकरण०" [ ७. २. १४५ ] इति डाच्प्रत्यये प्रकृते : साधुत्वं विज्ञेयम् । यद्वा कथञ्चिदित्थं साधनीयाः - " अव रक्ष. 80