________________
[ पा० १, सू० ५०-५१ ] कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
हरिणाप्युक्तं वाक्यपदीये -
5
"प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । ” इति, अयमर्थः-यत्र द्रव्यस्य प्रधानाप्रधानक्रिययोः पृथक् शक्तिस्तत्र गुणाश्रया शक्ति:-अप्रधानभूता शक्तिः, प्रधानमनुरुध्यते प्रधानानुरोधिनी भवति, किञ्च तत्र प्रधानविषयैव शक्तिः प्रत्ययेनाभिधीयत इति, एवं चाख्यातकिया प्रधानं तदनुरोधेन कर्मत्वशक्तिः प्रत्ययेन नाभिधातुं शक्यत इति करणे तृतीयैव 10 भवतीति ।
।
">
33
दण्डेनोपघातमिति विग्रहः, हेतौ करणे वा तृतीया, दण्डोपघातं गाः कलयतीति समासघटितं वाक्यं, तत्र दण्डोपघातमिति समासः, उपपूर्वाद् हन्तेः “हिंसार्थात्.' [ ५. ४. ७४ ] इनि पमि " णिति [ ४. ३. १००. ] 15 इति घातादेशे च ‘उपघातम्' इति, गाः धेनूः, कलयतिगमयति, “कलम् संख्यान-गत्योः” इति वचनात् । पार्श्वयोरित्यादि- पार्श्वयोरुपपीडं पार्श्वभ्यामुपपीडमिति वा विग्रहः, पार्श्वोपपीडं शेते इति समासघटितं वाक्यं, तत्र पार्श्वोपपीडमिति समासः, अत्रोपपूर्वात् पीडधातो: “उपपीडरुध - 20 कर्षस्तत्सप्तम्या” [ ५.४. ७५. ] इति णम् ।
|
ब्स्युक्त-तृतीयोक्तादिभिः सहैकार्थ्यस्यावश्यकत्वेनैकार्थे च समासस्यावश्यंभावात् तत्र समासो विकल्प्य विधातुं न शक्यत इति वाग्रहणमनर्थकमित्याशङ्कायामाह - वाशब्दो नित्यसमा - सनिवृत्त्यर्थः इति, अयमाशयः - ब्स्युक्तादिपदसम्बन्धेन जाय25 मानः कृत्प्रत्ययविधिरपि पदविधिरिति तत्र “समर्थः पदविधिः" [ ७. ४. ११२. ] इति परिभाषासूत्रेण तस्य समर्थाश्रितत्वमात्रं बोध्यते, तत्र सामर्थ्यं च व्यपेक्षैकार्थीभावभेदेन द्विविधमिति पूर्वत्र प्रदर्शितम्, तत्र व्स्युक्तादिभिरेकाथॉभाव एवेति न वक्तुं शक्यते मानाभावात्, अतः पूर्वसूत्रे नित्यमित्यनुवर्तितं तेन 30 स्युचेन नित्यसमासो लब्ध इति तत्रैकार्थीभावो नित्य इत्या
याति, अत्र च वाग्रहणात् पक्षे व्यपेक्षासामर्थ्यस्यापि सूचनाद् शक्यमपि लभ्यते । यद्यपि सर्वत्र समासप्रकरणे बहुलमित्यस्याधिकृतत्वाद् वाक्यस्यापि सत्ता प्रतीयते, तथापि पूर्वत्र नित्यग्रहणेन तत्सम्बद्धसमासेषु वाक्याभावो बोधित इति 35 तस्येहापि सम्बन्धो मा शायि, किन्तु पाक्षिकं वाक्यमपि प्रयुक्तं भवत्वेतदर्थं वाग्रहणस्यावश्यकत्वमिति ॥ ३. १. ५०. ॥
१०१
असः । निवर्त्यमानवद्भावश्चोत्तरपदार्थः पर्युदासे नञ्समासार्थः, 40 स चायं चतुर्धा - तत्सदृशः, तद्विरुद्धः, तदन्यः, तदभाव इति । अब्राह्मणः, अशुल इति तत्सदृशः - क्षत्रियादिः पीताविश्व प्रतीयते; अधर्मः, असित इति तद्विरोधी- पाप्मा कृष्णश्च प्रतीयते; अनभिः, अवायुरित्यद्मि-वायुभ्यामन्यः प्रतीयते; भवचनम्, अवीक्षणमिति वचन वीक्षणाभावः प्रतीयते 145 नन्वस्योत्तरपदार्थप्राधान्येन तलिङ्गसंख्यत्वे सति कथं 'भवन्त्यनेके जलधेरिवोर्मयः' इत्यादौ 'अनेके' इति बहुवचनम् ? असाधव एवेदृशाः शब्दाः । प्रसज्यप्रतिषेधे तु नम् पदान्तरेण सम्बध्यत इत्युत्तरपदं वाक्यवत् स्वार्थ एव वर्तते, तत्रासामर्थ्येऽपि यथाभिधानं बाहुलकात् समासः - सूर्यमपि न 50 पश्यन्ति-असूर्यपश्या राजदाराः, पुनर्न गीयन्ते - अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी, भलवणभोजी भिक्षुः; तथा कर्णवेष्टकाभ्यां न शोभते -भकार्णवेष्टकिकं मुखम्, “शोभमाने” [ ६. ४. १०२. ] इतीकण; वत्सेभ्यो न हितोऽवत्सीयो गोधुक् “ तस्मै हिते” [ ७. १. ३५. ] 55 इतीयः, वधं नार्हति अवध्यो ब्राह्मणः, “दण्डादेर्यः " [ ६. ४. १७८ . ] इति यः सन्तापाय न शक्तः - असांतापिकः सदुपदेशः, “तस्मै योगादेः शके: " [ ६. ४. ९४. ] इतीकण् । अन्य इत्येव न विद्यन्ते मक्षिका यत्र सोऽमक्षिकाकः, मक्षिकाणामभावोऽमक्षिकमिति ॥ ५१ ॥
|
नञ् । ३ । १ । ५१ ॥
त० प्र० - 'नमू' इत्येतनाम नाम्ना समस्यते स च समासोऽन्यस्तत्पुरुषसंज्ञो भवति । न गौः - अगौः
60
'तत्पुरुषसंज्ञो भवति' इति यदुक्तं तदेव 'उत्तरपदार्थप्रधानस्तत्पुरुषः' इति प्राचीन परिभाषास्मारणपूर्वकं प्रकृते स्पष्टयति- 70 निवर्त्यमानतद्भावश्चोत्तरपदार्थः इति निवर्त्यमानःतिरस्क्रियमाणः, तद्भावः - उत्तरपदस्य भावः प्रवृत्तिनिमित्तं यत्र तादृश उत्तरपदस्यार्थः, केनचिद् व्यामोहादिनाऽवादेर्यो गवादिभाव आशङ्कितः स निवर्त्यते यत्र तादृश उत्तरपदस्यार्थः, पर्युदासे नञ्समार्थः इति निवृत्तिविशिष्टोत्तरपदार्थप्राधान्यं 76 नन्समासस्यापीत्यर्थः । इदमुक्तं भवति - गवादिभिन्नेष्वेश्वादिषु कुतश्चित् कारणाद् गोत्वादिकमारोपितं, तदनेन नजा निवर्त्यते, अनुचैः । एवं च निवृत्तेरिह प्राधान्येऽपि तस्य धर्मिवारतस्येण भानमिति
श० म० न्यासानुसन्धानम् - नञिति । सूत्रार्थः सुगमः । अथ विगृह्योदाहरति-न गौरिति - विग्रहोऽयम्, अगौरिति समासः, "गोस्तत्पुरुषात् ” [ ७. १. १०५.] इति प्राप्तोऽपि समासान्तः “ नतत्पुरुषात् ” [ ७. ३. ७१.] इति प्रतिषिध्यते, नञः “नञत्” [ ३.२. १२५. ] इत्यदादेशः, 65 अनुच्चैरिति समासः, 'न उचैः' इति विग्रहः, “अन् स्वरे” [३. २. १६९. ] इति ननोऽनादेशः, असः इति समासः, तच्छब्दस्य पुंसि सौ ‘सः' इति रूपम्, 'न सः' इति विग्रहः ।