________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [ चतुर्थोल्लासे न्याय: १]
“पाम्त्वण्” इति–“सान्त्वण् सामप्रयोगे" इत्ययमेव षोपदेश । तदप्यागमशास्त्रस्यानित्यत्वादेव सिद्धमिति सकलेष्ट्रसाधकस्यास्य इति केचित् । "रश" इति-अयमधिक एव केषाञ्चिन्मते । न्यायस्य संक्षिप्तं विवरणम् ॥ "वाशृङ्च्” इति - " वाशिच् शब्दे" इत्यस्यैव ऋदित्त्वं केचि न्मन्यन्ते । “लश लषण्” इति - "लसण शिल्पयोगे" इत्ययमेव 5 तालव्यान्त इति कौशिकः, मूर्धन्यान्त इत्यन्ये । “दाशिण्" इत्ययमधिक एव परसम्मतः । ' खष" इति - "क शिष” इत्यादिवदयमपि हिंसार्थं इति कण्ठः । “सूष शूष" इति - " धूष प्रसवे" इत्ययमषोपदेश इत्येके, तालव्यादिरिति चारकाः । “घषुङ्” इति–“घसुङ् करणे” इत्ययमेव मूर्धन्यान्तत्वेन 10 चन्द्रसम्मतः । “धिषक् " इतीमं ह्रादावधिकं केचित् पठन्ति । "मुषच्" इति - पुष्पादिस्थो “मुसच् खण्डने” इत्ययं धान्त इत्यपरे । “जर्स” इतीममधिकमेव केचित् पठन्ति "ष्णुसच्" द्रमिलैरधिकमेव पठ्यते । “रणसूच्" इत्ययं घटादिबहिर्भूतो घटादित्वेनैकैर्मन्यते । “दासद्" इत्यधिक एव । 1b" उभ्रसूश्” “उभ्रसण्" इति - "भ्रसृश् उच्छे” “प्रसण् उत्क्षेपे” इति द्वावप्युकारादी इत्येके । "गृहौङ्” इति - "ग्लहौड् ग्रहणे” इत्यस्य स्थाने इति केचित् । "स्रन्हूड्” इति - युतादिस्थः “सम्भू विश्वासे" इत्ययमेव हान्त इति परे । हौ दृम्हौत्” इति-"स्तृहौ स्तूंहौत् हिंसायाम्" इत्येतौ बोपदेशा 20 वित्येके । “दहुण्” इत्यमुं केचिदधिकमेव पठन्ति । "वृक्ष" इति-" स्तृक्ष गतौ” इत्ययमेव षोपध इति चन्द्रः । “जभुङ्” इति - "क्षजुङ् गतिदानयोः" इत्यस्य वर्णविपर्ययेण कौशिकसम्मतोऽयम् । "भक्षी" इति - "लक्षी भक्षणे" इत्यस्य स्थाने इति केचित्। “ऋक्षद्” इति-अयमधिक एव स्वादौ कैश्चित् पव्यते । 25 एवं निरूपितः परपठितधातूनां परिचयः । स्वार्थिकणिमात्रा चन्द्रो “धृण् धारणे” इति पपाठ, स च "बहुलमेतन्निदर्शनम्' इत्युक्त्यैव साधितः । तह्रक्ष्यं च 'मैत्राय शतं धारयति' इत्यत्र " रुचिकृत्यर्थ-धारिभिः " [ २.२.५५ ] इत्युत्तमर्णाच्चतुर्थी सिद्धा । खमते च तत्सिद्धिः कर्मकर्तुः शतस्य केनचित् प्रेरणे 30 णिगि चौरादिकणिचो बाहुलकत्वाद् वा । आत्मनेपदार्थं पाठो
यथा - "कृत् विक्षेपे" इत्यस्य 'कारयते' इति सिद्धये "कृण् विज्ञाने” इति चन्द्रः पपाठ । तस्य च स प्रयोगो विज्ञानार्थे विवक्षितो धातूनामनेकार्थत्वाश्रयणेन साध्यमानोऽप्यात्मनेपदमात्र सिद्धिः फलम् । “पचि सेचने" इत्यस्य धातूनामनेकार्थत्वात् 35 समवाये वृत्तिसत्त्वेऽपि परस्मैपदार्थ "सच समवाये” इति चन्द्रेण पठ्यते । एवमिडर्थमपि क्वचित् पाठभेदो दृश्यते, यथा - " उबू दाहे" इत्यस्योदित्वेन खमते क्त्वि वेदत्वात् तयोरिड्निषेधात् - उष्ट्रः उष्ट्रवानित्येव भवति । अन्यैस्तु तत्रेट्सिद्धधर्धम् "उष दाहे " इति पाठः सम्मत इति क्त्वि नित्यमिटि - उषित्वे40 त्येकमेव, तयोश्व उषितः, उषितवानितीट्सहितं रूपमिति ।
२४८
!
|
प्रायोऽस्मिन् न्यायसङ्ग्रहे श्रीहै मशब्दानुशासनोपयुक्ताः सर्वेऽपि न्यायाः सङ्गृहीता एव, कतिचनैतेभ्यो भिन्ना अपि अनेकान्ता अनुबन्धाः * * एकान्ता अनुबन्धाः* *यथोद्देशं संज्ञापरिभाषम् 45 कार्यकाल संज्ञापरिभाषम् इत्यादयः एवं
यद् बाधितं तद्बाधितमेव * इति न्यायस्यापवादभूतः *पुनः प्रसङ्गविज्ञानम् इति चैवमादयोऽपि न्यायाः सूरिभिः क्वचिन्यासादावुपयुक्ताः सन्ति । इमे च न्यायाः पातञ्जलमहाभाष्यादौ यत्र तत्र व्यवहृताः । परमेषां लक्ष्यानुरोधेनैवाश्रयणीयतया तदनुरोधेनैव 50 व्यवस्थापनीयतया वा प्रकृतन्यायेनैव गतार्थत्वमिति नाधिकं तत्परिचयाय प्रयत्यते । सूरिभिश्च वैयाकरणपरम्पराप्राप्तप्रथमादिसंज्ञानामन्यैः । [ पाणिन्यादिभिः ] इव तत्तन्त्रप्रसिद्धानां लौकिकन्यायसिद्धानामेषां प्रकरणवशादुल्लेखः कृतः, न तावता तेषामवश्यसंग्रहणीयत्वमायाति । किञ्चानुबन्धविषये 'एकान्तत्वस्यैव' 55 तैरपि स्वीकृतत्वेन तस्यैव च न्याय्यत्वेन, अनुबन्ध पदव्युत्पत्तिलभ्यत्वेन चात्र सन्देहाभावेन तन्निर्णयाय नास्य न्यायतयो - पयोगोऽपि तु सिद्धार्थत्वेनैवेति ध्येयम् । एवं यथोद्देशकार्यकालपक्षयोरपि तत्र तत्र लक्ष्यानुसारित्वेनाश्रयणं तैरपि स्वीकृतमेव । एवं पुनः प्रसङ्गविज्ञान* न्याय व्याख्यावसरे नागेशादिभिरपि 60 लक्ष्यानुसारित्वमेव स्वीकृत मित्ययमेव न्यायस्तत्तदवशिष्टन्यायविषयसङ्ग्राहक इत्यलमतिविस्तरेणेति ॥ शम् ||
।
ए
इति न्यायसमुच्चयस्य सिन्धुकलिते चतुर्थोला से पूर्वदर्शितन्यायसजातीयस्य विस्तरतो व्याख्यातुं पृथगुपात्तस्य न्यायस्य तपोगच्छाधिपति सृरिचक्रचक्रवर्तिसर्वतन्त्र स्वतन्त्र श्रीमद्विजयने मिसरीश्वरपट्टालङ्कारेण 'व्याकरणवाचस्पतिशास्त्रविशारद - कविरत्न' इति पदालङ्कृतेन विजय लावण्यसूरिणा विरचितं तरङ्गाभिधं विवरणम् ॥ दूर दूर
wwwww
wwwww
क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, कचित् स्वातस्याध्वा क्वचिदपि च तेषां समुदयः । श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थं शुभधिया, बुधैर्बुद्धा तत्त्वं तदनुगतमर्यं श्रितजने ॥ १ ॥ सूरीन्द्र हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिरामं, धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः ।
www.w
--
न्यायानामर्थ सार्थं निजमतघटितं धारयन्ती यदीयां, मषां प्राप्य जाता वयमिह प्रभवः साधु सिन्धौ तरङ्गे ॥२॥
mw
65
$70
75