________________
तरङ्गप्रशस्तिः ।
[ उपजातिः ]
श्रीनाभिजातं शुभशान्तिनाथं, सुभव्यराजीनयनामृतं च ।
www.www
प्रकाशिपं श्री शुभवर्द्धमानं, नमामि नित्यं जिनराजराजम् ॥ १ ॥
[ शार्दूलविक्रीडितानि ]
लोकालोकविलोकिनो जिनपतेर्दूरीकृतांहस्ततेः, सोल्लासैरमराधिपैः कृतनतेः सूर्यातिगाङ्गयुतेः । गीरीशस्य च नश्च शासनपतेः सिद्धार्थसत्सन्ततेः, पहं धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ २ ॥ तत्र श्रीश्रुतकेवल गणिमणिश्चारित्रचूडामणिर्निन्प्रथाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सूरिमत्र कलनात् कोटीति नाम्नोज्वलं, गच्छं चाच्छमतिश्च सुस्थित इति श्री सूरिपोऽनु व्यधात् ॥ ३ ॥ चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिनं, गच्छं चानु चकार चारुचरणः श्रीचन्द्रसूरीश्वरः । तत्रैवानु च सूरिराट् शमनिधिः सामन्वभद्राभिधो, व्यातेने वनवासिगच्छममलं लीनं गुणानां गणे ॥ ४ ॥ संतापापहरं समाश्रितनृणां शाखावलीलालितं, दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोञ्जतम् । श्रेयांसं वटगच्छमच्छमतुलं सत्पुण्यपण्यापणमाचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः ॥ ५ ॥ भूपालेन च मेदपादपतिना दृष्ट्वा तपो दुष्करं, सान्वर्थं च महातपा इति पदं यस्मै ददे सम्मदात् ।
wwwwww
wwwww
wwwwww
wwwww
www
पुण्यात्मा विदधे ततः स च जगचन्द्राभिधः सूरिराद, षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ ६ ॥ गच्छेऽस्मिंश्च परम्परागत महो वैशद्यलीलालये, श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासन शिरोहीरेण धीरेण च, भूपालाऽकबरप्रबोधनकृता गुण्यात्मना सूरिणा ॥ ७ ॥
am
मोहेलापतिपादने पद्धतमे सद्धर्मसेनाकरे, श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा ।
ww
श्रीदेवेन च सूरिणा विबुधतास्फाति परां बिभ्रता, श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते ॥ ८ ॥ पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां, निर्मातुः रामसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य व साधोस्तारकपस्य वृद्धिविजयाभिख्यस्य वै सद्गुरोः ॥ ९ ॥ पादाम्भोज रजोमरन्दमधुपो विद्याविलासालयो, भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुरुद्वोढाऽऽगमयोगमुच्यविधिना प्रस्थानपञ्चत्परः ॥ १० ॥ स्वं चास्वं समयं सदा सहृदयं विद्वांश्च दिव्याकृतिर्नित्यं धर्मकथाविधौ विलसता माधुर्यमाश्रिता । गम्भीरध्वनिना घनाघनरवं हास्यास्पदं कुर्वता, तारेणाखिलभव्यकेकिनिकराऽऽनन्दं ददानः सना ॥ ११ ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा, शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः । सम्राट् श्रीजिनशासनस्य वसत्तिः प्रौढप्रतापचियो, राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ॥ १२ ॥ [ वसन्ततिलकानि ] ईडे सुदर्शनधरं पुरुषोत्तमं तं मैत्रीयुतं समुदयश्रियमादधानम् । सन्नन्दनं सुमनसा मनुरागचङ्गं, विज्ञानतामरसतामरसाकरं च ॥ १३ ॥ भव्यालिपङ्कविकलं जडतातिगं च नित्यं पुनानमखिलं किल साधुपद्मम् । सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरसुदारमनोऽभिरामम् ॥ १४ ॥
wwwwwwwww
NWA
३२ न्यायसमु०
www.