________________
[ प्रथमोलासे न्याय ४३,४४ ] न्यायार्थसिन्धु-तरङ्गकलिनो न्यायसमुचयः ।
*निरवकाशं सावकाशात् ॥ ४३ ॥ सि० येन नाप्राप्ति० न्यायेन यद्यपि निरवकाशत्वमेव बाधकत्वबीजमुक्तम्, यत्कर्तृकावश्यप्राप्तौ विधीयमानस्य हि तेन व्यासावकाशतया निरवकाशत्वात्, तथापि तेन सर्वथा 5 निरवकाशत्वे एव बाधकत्वमित्यायाति, अनेन च क्वचिचारि - तासम्भवेऽपि बाध्यमानशास्त्रापेक्षयाऽल्पावकाशत्वे बाधकत्वमिति कथ्यते । तथा चात्र 'निर्' शब्दोऽल्पार्थपरः, सावकाशपदे च सहशब्दोऽधिकार्थपरः, तथा चाल्पविषयं शाखं बहुविषयशास्त्राद् बलवदित्यर्थः । तथा चाल्पावकाशं 10 शास्त्रं बह्रवकाशशास्त्रं प्रबाध्य पूर्व प्रवर्त्तत इति पर्यवस्यति । यथा “एद् बहु-स्-भोसि” [१. ४. ४.] इत्यस्य बह्वर्ये सकारादौ स्यादौ प्रवर्त्तमानत्वेन “मिस ऐस्” [१.४.२.] इत्यस्य च विशिष्य भिस्येव प्रवर्त्तमानत्वेन पूर्वस्य [ एवविधायकस्य ] परोल्लिखित भिस ऐविधायक शास्त्रा15 पेक्षया दुर्बलत्वम्, तस्य [ एस्वविधायकस्य ] बहुविषयत्वात् तथा च 'वृक्षैः' इत्यादी ऐसेव प्रवर्त्तते, न स्वेवं भवति, एस्वस्य हि ‘वृक्षेभ्यः, शुभिः, एभ्यः' इत्यादी सावकाशत्वम्, ऐसश्च सर्वभैरवेन व्यासावकाशत्वमेव, तेन चैत्वस्य परत्वेऽपि निरवकाशैस् विधायकशास्त्रदृष्ट्या दुर्बलत्वमेव । यदि हि वृक्षै 20 रित्यादावप्येत्त्वमेव प्रवर्तेत तर्हि ऐविधायकस्य वैयर्थ्यमेव स्थात्, कृतं च तच्छास्त्रं स्वसार्थक्यायैतत्वायमाक्षिपति, तथा चैतत्सूत्रमेवैतश्यायं ज्ञापयति । भयं च न क्वापि बाध्यः, निरवकाशस्यापवादस्वेन सर्वतः प्राबल्यात् ॥ ४३ ॥
।
-
८१
25
*निरवकाशं सावकाशात् ॥ ४३ ॥ त०—*येन नाप्राप्ति*न्यायस्यैवायं प्रपञ्च इत्युपपादितं वृत्तौ । तथा च तदप्राप्तियोग्येऽचारितार्थ्ये सति कृतेऽचारितार्थ्यमित्येवंरूपद्वितीयबाधबीजस्थलेऽपि यद्यपि पूर्वन्यायस्य प्राप्तिरस्ति तथापि तद्वाधबीजस्य तेन शब्दतो न सङ्ग्रह इति विशिष्य न्यायान्तरेण तदिह कथ्यते । लोके हि द्विधा व्यवहारा दृश्यन्ते, , केचिदसम्भवे 30 एवं बाधकाः, केचित् सत्यपि सम्भवे बाधकाः, यथा 'सर्वे ब्राह्मण भोज्यन्तां माठर कौण्डिन्यौ परिवेविषाताम्' इत्युक्ते ब्राह्मणत्वेन माठर-कौण्डिन्ययोः प्राप्तं भोजनं परिवेषणेन विशिष्य विहितेन बाध्यते, तत्र भोजन परिवेषणयोर्युगपदसम्भवे एव बाधकत्वमिति; अन्यत्र च 'सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां, त 35 कौण्डिन्याय' इति व्यवहियते, तत्र यद्यपि तदानस्य दधि दानोत्तरं ततः पूर्वं वा सम्भवोऽस्ति तथापि विशिष्य विहितत्वेन येन नाप्राप्तौ विहितत्वेन वा तत्रदानं दधिदानस्य बाधकं भवति । तथा च येन नाप्राप्ति न्यायः सर्वथा निरवकाशत्वे एव बाधक इति नास्ति । अयं च न्यायोऽसम्भवे एव बाधकत्व११ न्यायसमु
।
प्रदर्शक इति पूर्वन्यायादस्य विशेषः । यद्यपि पूर्वन्यायेनाप्येत- 40 लक्ष्याणि सिद्धयन्ति, तथापि बाधकत्वस्य वैचित्र्यप्रदर्शनार्थेौऽयं न्याय इत्यवगन्तव्यम् ॥ ४३ ॥
*वार्णात् प्राकृतमू* ॥ ४४ ॥
.
सि० - वर्णा: --अकारादयः, तत्सम्बन्धिकार्य वार्णम्, प्रकृतिः - प्रत्ययविधावुद्देश्यत्वेनाश्रीयमाणो वर्णसमुदायरूपः 45 शब्दः, तत्सम्बन्धिकार्यं प्राकृतम्, तथा च वर्णत्वव्याप्यधर्मावच्छattraकार्यापेक्षया प्रकृतित्वावच्छिन्नोद्देश्यककार्य बलवदिति न्यायार्थः । अत्र प्रकृतिपदेन धातुरेव गृह्यते न सु नाम, तत्कार्याणां वार्णेष्वेवान्तर्भावादिति केचित् ततादृशसङ्कोचे मानाभावात्, “स्वरितो वाऽनुदात्ते पदादी" 50 [ पा० सू० ८. २. ६.] इत्यादिसूत्रे भाष्यादौ 'कुमार्यै' इत्यादिनामप्रयोगविषयेऽप्येतत्प्रवृत्तिचचयाः कृतत्वाच्च । स्वमते चान ज्ञापकम् 'ऊवतुः' इत्यादिप्रयोगसिद्ध्यर्थ यत्त्रान्तराकरणमेवेति पूर्वे व्याख्यातारः, तदपि न समीचीनम् - तादृशरूपसिद्धयर्थं यनाकरणेन तथाविधरूपस्यैवानिष्टत्वानुमानस्य युक्तत्वात् सति 55 हि तादृशरूपस्येष्टत्वेऽवश्यमाचार्यैस्तदर्थं यत्नः कृतो भवेत्, न च कृतः, ततस्तस्यानिष्टत्वमेवेत्यपि कश्चिदुद्भावयेत्। अतश्म तदर्थं यत्नाकरणमस्य न्यायस्य शापकमिति न किञ्चिदेतत् । पाणिनीये महाभाष्ये च षष्ठाध्यायप्रथमाह्निकान्ते “दाश्वान् साह्वान् मीढांश्च" [पा० सू० ६. १. १२. ] इति सूत्रम्याख्याव - 60 सरेsस्य न्यायस्य ज्ञापकसिद्धत्वं स्पष्टमेवोक्तम् । ज्ञापकं च तत्र "अभ्यासस्या सवर्णे” [ ६. ४. ७८ ] इति पाणिनीये सूत्रेऽसवर्णग्रहणम् । स्वमतेऽपि “पूर्वस्यास्त्रे स्वरे खोरियुक्” [४. १. ३७.] इति सूत्रस्थम् 'अस्त्रे स्वरे' इति वचनं ज्ञापकं भवितुमर्हति तथाहि - ' इयेष ' इत्यादौ 'इ+इष्+भ' 65 इति स्थितौ "लघोरूपाभ्यस्य" [ ४. ३. ४.] इति गुणः “समानानां तेन दीर्घः” [१ २ १] इति दीर्घश्च समकालमेव प्रातः, तत्र दीर्घस्यान्तरङ्गत्वेन पूर्व प्रवृत्याऽस्वस्वरपरत्वाभावेनास्य प्राप्तिरेव नेति तस्य वैयर्थ्य स्पष्टमेवेति व्यर्थीभूतं तदिमं न्यायं ज्ञापयति । ज्ञापिते चास्मिख्याये 70 गुणस्य प्रकृत्युद्देश्यकविधित्वेन बलवत्त्वात् तस्य पूर्वं प्रवृत्तावस्वस्वरपरत्वं भवतीति तस्य सार्थक्यं भवति । 'अस्वस्वर' ग्रहणं हि 'ईषतुः' इत्यादौ गुणादेरप्रास्या तत्रेयुवोरप्रवृत्त्यर्थमेव कृतं स्यात्, तत्रापि च पूर्व समान दीर्घप्रवृत्त्याऽस्वस्वरपरत्वमसंभवमेवेति न्यायज्ञापनं विना न तस्य सार्थक्यम्, इति प्राचीम- 75 मतम् ।
नवीनास्तु - एतस्यायाभावे “पूर्वस्यास्व स्वरे० " [ ४. १. ३७.] इलि संपूर्णसूत्रमेव व्यर्थम्, न च 'इयाय, इयेष ' इत्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवद्धेश्व