________________
५२
न्यायार्थी सेन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
20
|
!
["इन्- हन्०" इत्यादिना सूत्रेण] दीर्घविधानं व्यर्थं सत् इनादीनां शि-स्योरेव दीर्घो नान्यघुटीति नियमयति, तेन दण्डिनावित्यादौ दीर्घो न भवति । अयं च न्यायः पुनर्वचनेनैव विज्ञाप्यते एतदभावे हि "इन् ०" इत्येवमादिसूत्राणां विधित्व 5 मेव स्वीकर्तव्यं स्यात् । तथा च सति तेषां वैयर्थ्य स्पष्टमेव एतत्साध्यरूपाणां “नि दीर्घः” [ १.४. ८५. ] इत्यनेनैव सिद्धेरुक्तत्वात् । क्वचिच्च सिद्धे सत्यप्यारभ्यमाणो विधिर्नियमार्थो न भवति न्यायस्यास्थिरत्वात्, यथा " लिहादिभ्यः " [५.१.५० ] इति सूत्रेण लिहादिभ्य आकृतिगणेभ्योऽच् विधीयते, तत्रैव गणे 10 कर्मोपपदेभ्योऽर्हादिभ्योऽपि भवतीति पाठेनैव 'पूजाही ' इत्यादि - | सिद्धौ “अर्होऽच्” [ ५. १९१ ] इत्यादिसूत्राणि वृथैवारभ्यन्त इति नियमार्थानि स्युः, न च नियमः सम्भाव्यते, तथाहि - कीदृशो नियमः स्यात् ? कर्मोपपदेभ्यो लिहादिभ्योऽजेव नाणिनि चेत् ? अस्यार्थस्य लिहादिपाठेनैव सिद्धेः, कर्मोप15 पदेभ्योऽच् चेलिहादिभ्य एवेति चेत् ? तदपि न - अन्येभ्योऽचः प्रमाणान्तरेणाप्राप्तेरिति न प्रत्ययनियमो नापि प्रकृतिनियम: संभाव्यत इति लिहादिप्रपञ्चार्थत्वमेवैषां सूत्राणामित्यास्थेयमिति ॥ २५ ॥
*सिद्धे सत्यारम्भो नियमार्थः ॥ २५ ॥ त० — यद्यपि "विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥" इति मीमांसकरीत्या पाक्षिक्यां प्राप्तौ सत्यामेव नियमः, न तु सर्वथा प्राप्तौ [ तत्र चान्यत्र च प्राप्तौ ] । “नि दीर्घः” [ १ . ४. ८५. ] इत्यनेन च शि-स्योरन्यत्र च प्राप्तिरेव, न तु पाक्षिकी 25 प्राप्तिः, पाक्षिकी प्राप्तिर्हि विकल्पस्थाने भवति । यथा- 'ब्रीहीनवहन्ति' इति, अत्र हि यागीयचरु निष्पादनार्थं ब्रीहीणामवघातो विधीयते, अवघातश्च निस्तुषीकरणार्थं एव, शक्यते च निस्तुषीकरणमुपायान्तरेण नखविदलनादिनाऽपि । तथा च चरुनिष्पादनार्थं निस्तुषीकरणायावघातस्य न नियता प्राप्तिरपि तु पाक्षिकी 30 एतद्विध्यभावे हि कदाचिदुपायान्तरेणापि तत्करणस्य सम्भवात्, इत्यनेन विधिना नियम्यते - अवघातेनैव व्रीहीन निस्तुषीकुर्यादिति । तथा च नात्र मीमांसकपरिभाषितो नियमः, किन्तु परिसंख्याविधेरेवात्र शास्त्रे नियमपदेन व्यवहारः, तदुक्तं नागेशेन पस्पशाह्निके महाभाष्यव्याख्यायाम्- " नन्वस्य परिसंख्यात्वात् 35 कथं नियमत्वेन व्यवहारः ?, अस्ति च नियम- परिसंख्ययोर्भेदः, पाक्षिका प्राप्तिकाप्राप्तांशपरिपूरणफलो नियमः, अन्यनिवृत्तिफला च परिसंख्येति चेत् ? न नियमेऽप्यप्राप्तांशपरिपूरणफलबोधन
।
"इन्- हन्०" [१. ४.८७ ] इत्यादिशास्त्राणां शिस्योरन्यत्र दीर्घाभाव एव तात्पर्यम् । “अर्होऽच्" [५. १. ९१.] इत्या- 40 दिषट्सूत्र्या बृहद्वृत्तौ लिहादिप्रपञ्चार्थत्वस्योक्त्या चास्य न्यायस्यास्थिरत्वमुक्तं वृत्तौ तत्र यद्यपि न लिहादिषु पाठः पूर्वकृतोऽस्ति येन सिद्धे सत्यारम्भत्वमेषां स्यात्, लिहादिषु तथा पठित्वैतेषां तथात्वापादने च न कश्चिद् विशेष, सूत्रैरप्राप्तांशपरिपूरणायैव गणेषु विशिष्टो विधिर्गणसूत्रैरारभ्यते, सति च सूत्रैः प्राप्तौ तदा. 45 रम्भस्यैव प्रत्याख्येयत्वम् तथा च यथास्थितलिहादिपाठे नास्त्येषां नियमत्वसंभावनेति प्रपञ्चार्थत्वमुक्तमिति नैतावता स्य न्यायस्यास्थिरत्वं कल्पयितुं शक्यं, तथापि प्राचां रीत्या तथोलेख आहतो वृत्ताविति विज्ञेयम् ॥ २५ ॥
* धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम* || २६ ॥
सि० - धातोः स्वरूपस्य ग्रहणं यस्मिन् स विधिः स्वरूपग्रहणस्तस्मिन् । यद्यपि धातोरित्यस्य स्वरूपेण सम्बन्धः, स्वरूपस्य च ग्रहणेनेति स्वरूपशब्दस्य धातुना साकाङ्क्षत्वात् 55 साकाङ्क्षम समर्थवदिति न्यायेनासामर्थ्यादिह समासो न प्राप्नोति, तथापि
50
“सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ समुदायेन सम्बन्धो येषां गुरुकुलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥ " इति हरिकथितरीत्या सापेक्षत्वेऽपि समासः कृत इत्यवधेयम् । प्रकृतहरिकारिकार्थस्तु सर्वः, नित्यं सापेक्षः, सम्बन्धिशब्दः समस्यते, हि यतः, सा व्यपेक्षा वाक्यवद् वृत्तावपि न हीयते । अयमाशयः सर्वे सम्बन्धिशब्दाः- ये कमपि सम्बन्धं 65 प्रवृत्तिनिमित्तीकृत्य स्वार्थमभिदधति ते शब्दाः सम्बन्धिशब्दा उच्यन्ते, ते च नियतमेव स्वसम्बन्धिपदार्थान्तरमाकाङ्क्षन्त्येव, यथाऽत्र स्वरूपशब्दः स्वसम्बन्धिनं धातुमाकाङ्क्षति, -तथा च ते नित्यं साकाङ्क्षा इति तेषां वाक्य इव वृत्तावपि सामर्थ्य तिष्ठत्येवेति समासो भवति । तथा च सापेक्षम समर्थवत् * 70 इत्यत्र नित्यसापेक्षातिरिक्तत्वं निवेशनीयमिति ॥
60
तत्रोदाहरणरूपेण द्वितीयकारिकामाह-समुदायेनेति - 'येषां गुरुकुलादीनां समुदायेन सम्बन्धः, ते, अवयवान्- गुर्वादीन्, संस्पृश्य-तैः पूर्वसम्बन्ध्य, तद्वता - श्रवयविना समुदायेन गुरुकुलादिना, युज्यन्ते सम्बन्ध्यते' इत्यन्वयः । अयमाशयः - 75 देवदत्तस्य गुरुकुलमित्यादौ देवदत्तस्य गुरुणा गुरोश्च कुलेन द्वाराऽऽर्थान्यनिवृत्तेः सत्त्वेनाभेदमाश्रित्योक्तेः" इति । तथा च सम्बन्धः, गुरुशब्दो हि निरूपकत्वेन देवदत्तादिपदार्थ नित्यमा