________________
श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः ।
[पा० १. सू०२२. ]
स्त्याद्यन्तस्य विभक्तिसंज्ञा स्यात् तस्यां च सत्यां 'कागृहं युष्म'पुत्राणाम्' इत्यादौ काष्टशब्दस्य गृहमिति विभक्त्या पदत्वे ततः परस्य युष्मदः स्थाने पुत्राणामिति विभक्त्या सह वसादेशः स्यादि त्यतिव्याप्तिः ' ददाति नः शास्त्रम्' इत्यादौ च ददातीत्यादेविं 5 भक्तिसंज्ञकत्वेन पदा(पदत्वा ) भावान्नो न स्यादित्यतिव्याप्तिः, इति ते [ अतिव्याप्यव्याप्ती ] मा भूतामित्यन्तग्रहणम् ॥ २० ॥
।
नाम सिदय्व्यञ्जने | १|१|२१|| त० प्र०—–सिति प्रत्यये यकारवर्जिते व्यञ्जनादौ च परे पूर्व नाम पदशं भवति । भवदीयः । ऊर्णायुः । 10 अहंयुः । अहयुः । शुभंयुः । शुभस्युः । व्यञ्जने - पयो भ्याम् । पयस्सु । राजता । दृक्स्वम् | राजकाम्यति । मामेति किम् ? धातोर्मा भूत् वच्मि, यज्वा । सिदय्व्यञ्जन इति किम् ?, भवन्तौ राजानौ । यवर्जनं किम् ? वाचमिच्छति वाच्यति । अन्तर्वर्तिन्यैव विभक्त्या तद 15 न्तस्य पदत्वे सिद्धे सिद्ग्रहणं नियमार्थम्, तेन प्रत्ययान्तरे न भवति-सौश्रुतम् भागवतम् ॥ २१ ॥
|
श०न्या०—नामेत्यादि - नमति - प्रह्वीभावं गच्छत्यर्थ प्रत्येतत् " सात्मन्नात्मन्वेमन् ०" [ उणा० ९१६] इति माने मकारस्यात्वे च नाम । स् इद् यस्य स सिद्, अन्यस्यासंभ20 वात् प्रत्यय एव, तत्साहचर्याद् यकारवर्जितं व्यञ्जनमपीत्याहसितीत्यादि । भातेर्डवतो भवत्, तस्यायम् “भवतोरिकणीयसौ” [ ६.३.३०. ] इति ईयसि पदत्वात् तृतीये भवदीयः । 'उ' इत्यस्माद् " इणुर्वि ० " [ उणा० १०२. ] इति णे ऊर्णा अस्य सन्ति, [ ऊर्णायुः । अहंयुः, अहय्युः, शुभंयुः, 26 शुभस्युः ] 'अहम्, शुभम्' इति विभक्तिप्रतिरूपकमव्ययम्, “ऊर्णाऽशुभमो युस्” [ ७.२.१७ ] इति युति अनेन पदरवे "सौ मुमो व्यञ्जने खौ” [ १.३.१४ ] इयनुखारानुनासिकौ च भवतः । “पां पाने" पीयते तदिति "पा-हाक्भ्यां पय-यौ च” [ उणा० ९५३ ] इत्यसि पयः, राजन् (त) 30 इति " उक्षि-तक्ष्यक्षीशि- राजि०" [ उणा० ९०० ] इत्यनि राजन् पश्यतीति क्विपि दृकू, एर्षा भ्यामि, सुपि, : तलि, त्वे च प्रत्यये पदत्वा रुत्व - नलोप- गत्वानि भवन्ति । राजानमिच्छति “अमाव्ययात् क्यन् च” [ ३.४.२३. ] इति काम्ये नलोपे च राजकाम्यति । वचेर्मिवि वच्मि । यजे35 रिष्टवानिति “सुयजोवनिप्” [ ५.१.१७२. ] इति यज्वेति,
अत्र पदत्वाभावात् कत्व-गत्वे न भवतः । ननु पयोभ्यामि'त्यादिसिद्ध्यर्थं व्यञ्जनप्रहणमस्तु, सित् प्रत्ययस्तु विभक्त्यन्ताद् मिश्रीयते, तत्रान्तर्वर्तिन्यैव विभक्त्या स्थानिवद्भावेन पूर्वेण
२९
पदत्वे सिद्धे सिग्रहणमतिरिच्यते । नातिरिच्यते, नियमार्थत्वात् तस्येत्याह- अन्तर्वर्तिन्येत्यादि । नियमफलं दर्शयति - तेने- 40 त्यादिना । सुपूर्वात् "श्रुं श्रवणे" इत्यस्मात् विपि सुश्रुत, भज्यतेऽनेनेति "गोचर-संचर० " [ ५.३.१३१. ] इति घे, "तेऽनिटचजोः कौ थिति" [४.१.१११.] इति गत्वे भगः, सोऽस्यास्तीति मतौ “मावर्णान्त० " [ २.१.९४ ] इति वत्वे च भगवान्, तयोरिदम् “ तस्येदम्” [ ६.३.१६०. ] इत्यणि 46 पदत्वाभावाद् दत्वाभावे सौश्रुतम्, भागवतमिति । 'सौश्रुतम्' इत्यादौ नियमस्य चरितार्थत्वात् 'पयोभ्याम्' इत्यादौ च 'अय्व्यजने' इत्यस्य, 'राजता, इक्त्वम्' इत्यत्रोभयप्राप्तौ : शब्दपरविप्रतिषेधात् “ तदन्तं पदम् ” [ १.१.२० ] इत्यस्यैव नियम्यमानश्वाद् वाऽयूम्यजनाश्रितं पदत्वं भवति ॥ २१ ॥ .
50
म्या० स० - नामेत्यादि नमति धातवे इति नाम, नमसि प्रह्वीभावं गच्छति अर्थं प्रति इति वा “सात्मन्नात्मन् ० " [ उणा० ९१६ . ] इति साधुः । [ व्यञ्जनं वि-अञ्जनम् ] वेति विशिष्टार्थप्रतीतिं जनयतीति वि: “नी वी-प्रहृभ्यो डित्" [ उणा ०६१६.] इति डित् इः । ननु 'नाम सियञ्जने' इत्येव क्रियतां किं यव- 56 जैनेन ? न च 'बाच्यति' इत्यादावपि पदसंज्ञाप्राप्तिरिति वाच्यम्, यतो व्यञ्जनद्वाराऽनेनैव 'राजीयति' इत्यादौ पदत्वेऽपि सिद्धे “नं क्ये " |[ १.१.२२. ] इति सूत्रं नियमसूत्रतया व्याख्यास्यते - नकारान्तमेव क्यप्रत्यये पदसंज्ञं भवति नान्यद् इति नान्तं क्यप्रत्यय एव पदम्, न प्रत्ययान्तरे, इति विपरीतनियमो ऽपि कथं न भवति ? तथा 60 च 'राजा, सीमा' इत्यादावपि पदत्वं न स्यादिति चेत्, तन्न“युवा खलति ० " [ ३.१.११३. ] इत्यादिनिर्देशात् । सत्यम् - यवर्जनाभावे 'सत्सु साधु-सत्यम्' इत्यादिषु “नाम सिदू०" [१.१. २१. ] इति पदसंज्ञा स्यादित्येतदर्थं यवर्जनमिति । राजतेति, सौश्रुतमित्यादौ नियमस्य चरितार्थत्वात् पयोभ्यामित्यादौ च 65 'अव्यञ्जने' इत्यस्य, राजता, दृक्स्वमित्यत्रो भयप्राप्तौ *स्पर्धे परम् [ "स्पते” ७.४.११९ ] इति न्यायादन्याश्रितं पदत्वं भवति ॥ २१ ॥
नं क्ये । १ । १ । २२॥
त० प्र०—क्य इति उत्सृष्टानुबन्धानां क्यन्-क्यं - 70 क्यषां ग्रहणम् । नकारान्तं नाम क्ये प्रत्यये परे पदसं भवति । राजानमिच्छति क्यन्- राजीयति । राजेवाऽऽचरति क्यङ् - राजायते । अचर्म धर्म भवति क्यषुधर्मायति, धर्मायते, पदस्वान्नलोपः । नमिति किम् ? वाच्यति । क्य इति किम् ? सामने साधुः सामन्यः । एवं 75 बेमन्यः । भयिति प्रतिषेधात् पूर्वेणाऽमाते वचनम् ॥२२॥