SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४४ : श्रीसिद्धहेमचन्द्रशब्दानुशासने [४] उक्तवाचकवर्यस्य सप्तभङ्गी-नयप्रदीपप्रकरणोपरि सहस्रद्वयश्लोकमाना ' बालबोधिनी' विवृतिः (२०००)1 [५] उक्तमहामहोपाध्यायस्य जैनतर्कपरिभाषापरनामाऽनेकान्तव्यवस्थाप्रकरणस्योपरि चतुर्दशसहस्र. श्लोकप्रमाणा ' तत्त्वबोधिनी' विवृतिः (१४०००)। [६] उक्तवाचकशेखरस्य स्वोपज्ञनयामृत तरङ्गिणीसहितनयोपदेशग्रन्थस्योपरि पोडशसहस्रश्लोकप्रमाणा 'तरङ्गिणीतरणिनामा' वृत्तिः (१६०००)। [७] कलिकालसर्वज्ञश्रीहेम वन्द्रसूरिपवरकृतस्य स्वोपजालङ्कारचूडामणिवृत्तिसमेतस्य काव्यानुशासन स्योपरि विंशतिसहस्र श्लोकमाना रुचिरा वृत्तिः (२००००)। [८] चतुश्चत्वारिंशच्छतग्रन्थसूत्रणसूत्रधारस्य सुगृहीतनामधेयस्य याकिनीमहत्तराधर्मसूनोः भगवतः श्रीहरिभद्रसूरिपुरन्दरस्य शास्त्रवार्तासमुच्चयग्रन्थस्योपरि स्वोपज्ञवृत्तिभावं वाचकीयस्याद्वादकल्पलता. भावं चान्तर्भावयन्ती पञ्चविंशतिसहस्रलोकप्रमाणा विवृतिः ( २५०००)। सर्वमप्येतद्गणना मानमानुमानिकम् । [९] परमाईतमहाकविधनपालविरचितस्य तिलकमञ्जरीमहाकाव्यस्योपरि 'पराग ' नामा विशालकाय विवृत्तिः । [१०] कलिकालसर्वज्ञस्य शब्दमहार्णवन्यासस्य विशालकायस्यानुसन्धानम् । व्याकरणतत्त्वपिपासव इमान् ग्रन्थमणीन् कण्ठाभरणीकृत्य विद्वत्समाजे शोभातिशयमासादयन्तुतराम् । प्रान्ते-अस्य प्रूफ' संशोधनं व्याकरणतीर्थोपाधिधारिणा अम्बालालपण्डितेन सूक्ष्मेक्षिकया कृतमस्ति, अपि चास्योपोद्घातः ऐतिह्य सामग्र्यलंकृतः तेनैव पण्डितेन महता परिश्रमेग लिखितस्तेन स धन्यवादाहः। वैशाखशुलतृतीया ( अक्षयतृतीया ) ता.९-५-१९५१ पं. सुशीलविजयो गणिः तपागच्छीयश्रीविजयनेमिसूरीश्वरज्ञानशाला, पांजरापोल, अमदावाद
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy