SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४४ २०४ किञ्चित् प्रास्ताविकम् : ४३ १७. वेदाङ्कुशः, १८. सससन्धानमहाकाव्यम् , [ अधुना नोपलभ्यते ] १९. द्विजवदनचपेटा २०. अर्हन्नीतिः २१. महादेवस्तोत्रम् , २२. वादानुशासनम् , २३. अलङ्कारवृत्तिविवेकः, २४. अर्हत्सहस्रनामसमुञ्चयः, २५. अभिधानचिन्तामणि-परिशिष्टम् , इत्यादयो ग्रन्थाः, तत्र केचिन्मुद्रिता केचिदमुद्रिता केचित् सम्प्रति नो लभ्यन्ते च । न्यासानुसन्धानकारस्य व्याकरणवाचस्पति-शास्त्रविशारद कविरत्नस्य प्रगुरोः श्रीविजयलावण्यसूरीश्वस्य वृत्तान्तलेशःसौराष्ट्रान्तर्गते बोटादनगरे वीशाश्रीमालज्ञातीयो 'जीवनलाल' नामा श्राद्धपवरः। तस्य 'अमृत'नामा धर्मपत्नी, तया पूर्वमेकस्तनयोऽजनि, यस्य 'ठाकरशी' इति नाम, तदनु एका बालिका ननि यस्याः 'शिव' इति नाम, तदनु १९५३ तमे विक्रमाब्दे भाद्रबहुलपञ्चम्यामेकस्तनुजोऽजनि, यस्य 'लवजी' इति नाम । अनेन पूर्वजन्मार्जितपुण्यवशादादशे वर्षे पू० प्रा० शासनसम्राटमरिचकचक्रवर्ति-सर्वतत्र. स्वतन्त्र-तपोगच्छाधिपति -- श्रीविजयनेमिसूरीश्वरपाई परमपददायिनी भागवती प्रव्रज्या गृहीता, गुरुचरणैः 'लावण्यविजय' इति नाम च निरमायि । विविधशास्त्राण्यधीयानाय विहितपञ्चचत्वारिंशदागमयोगाय योन्याय प्रज्ञानिधानायास्मै गुरुवरण शास्त्रविहिता प्रवर्तकपदवी गणिपदवी पन्या सपदवी उपाध्यायपदवी आचार्यपदवी व क्रमेण दत्ता, तत्रापि उपाध्यायपदवीप्रदानावसरे याकरणवाचस्पति-कविरत्न शास्त्रविशारद ' इति पदवीत्रयमपि प्रसन्नेन गुरुवरेण प्रादायि । प्रगुरुवर्यश्रीविजयलावण्यसूरीश्वरनिर्मितग्रन्थाः[१] धातुरनाक ग्रन्थस्य सप्त भागाः, ( साईचतुष्टयलक्ष श्लोकप्रमाणाः) (४५००००) [२] तत्त्वार्थाधिगमसूत्रगतानि यानि दर्शनमूलानि त्रीणि सूत्राणि, तद्भाष्यं तवृत्तिश्थ, तेषामु गरि चतुःसहस्रश्लोकमाना त्रिसूत्रीप्रकाशिका' नाम विवृतिः ( ४०००)। [३] न्यायाचार्य-न्यायविशारद-महामहोपाध्यायश्रीयशोविजयगणिविरचितस्य नयरहस्यग्रन्थस्योपरि सहस्रत्रयश्लोकमाना ' प्रमोदा' वृत्तिः ( ३०००) ।
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy