________________
૪૦ : શ્રીસિદ્ધહેમચંદ્ર શબ્દાનુશાસન "भ्रातः ! संवृणु पाणिनिप्रलपितं कातकन्थावृथा,
मा कार्षीः कटुशाकटायनवचः क्षुद्रेण चान्द्रेण किम् ? ॥ किं कण्ठाभरणादिभिर्बठरयस्यात्मानमन्यैरपि, श्रूयन्ते यदि तावदर्थमधुरा श्रीसिद्धहेमोक्तयः ॥"
-इति प्रबन्धचिन्तामणौ पा० ६१] व्याकरणवंशपरम्परायामस्य स्थानम्
सर्वतः प्राचीनमिन्द्रव्याकरणमितीतिहासविदो वदन्ति । अस्य तैत्तिरीयसंहितायामयमुल्लेखः--
“वाग वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमबुन्निमां नो वाचं न्याकुर्विति ।........तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् " इति ।
जैनग्रन्थेषु तु- भगवतो महावीरस्याध्यापकस्येन्द्रस्य च समागमे महावीरमासने समुपवेश्येन्द्रेण शब्दलक्षणं पृष्टे सति महावीरस्तं व्याकरोत् , अत इन्द्रमुद्दिश्य व्याकृतत्वादु'ऐन्दं जातमिति । यदाह
"सको भ तस्समक्खं भगवन्तमासणे निवेसित्ता ॥ · सदस्स लक्खणं पुच्छि वागरणं अवयवा इंदं ॥"
-इति कल्पसूत्रसुबोधिकायाम् ] ततः पाणिनिसमयं यावत् चतुष्षष्टेवैयाकरणानां नामानि श्रूयन्ते- ' आपिशलि-काश्यप-गार्ग्यगालव-चक्रपाणि-भारद्वाज-शाकटायन-शाकल्य-स्फोटायन' इत्यादयः, तदनु पाणिनिना माहेश्वराणि चतुर्दशसूत्राणि समाश्रित्य चतुस्सहस्रसूत्रावच्छिन्नमष्टाध्यायमयं व्याकरण व्यरचि, संस्कारितं चैतत् १२४५ सूत्रोपरि वररुचिना 'वार्तिक' विधाय त्रुटेरपाकरणेन, पतञ्जलिना च १७१३ सूत्रोपरि 'भाष्यं' निर्माय विशदीकरणेन, तदनु शिवशर्मणा 'कातन्त्रं,' तदनु बौद्धेन चन्द्रगोमिना 'चान्द्र', तदनु दिगम्बरेण देवनन्दिना 'जैनेन्द्रं' व्याकरणमकारि, तदनु भर्तृहरिणा 'वाक्यपदीयं' व्यधायि, तदनु श्वेताम्बराचार्येण बुद्धिसागरेण 'बुद्धिसागरं ' व्याकरणमरचि, ततः प्रस्तुतस्य 'सिद्धहेमचन्द्रशब्दानुशासनस्य' जन्म। विश्वविदितस्य प्रस्तुतशब्दानुशासनस्यास्य वृत्तान्तलेश:
सौराष्ट्रदेशे धन्धुकानगरे मोढज्ञातीयश्चचा नामा वणिक्वरः, तस्य पाहिणी नाम्नी धर्मपत्नी, तया ११४५ तमे विक्रमाब्दे एकः प्रतिभाशालिपुत्ररत्नोऽजनि, तस्य 'चांगदेव' इति नाम निर्मितम् । अनेन चांगदेवेन श्रीदेवचन्द्रसरिसकाशात् ११५४ तमे विक्रमाव्दे जिन दीक्षा गृहीता, 'सोमचन्द्र' मुनिरिति गुरुणा नाम निरमायि, ११६६.तमे विक्रमाब्दे मरुधरान्तर्गते नागपुरे नागोर' इति ख्यातनगरे गुरुणा आचार्यपदमधिरोपिते 'हेमचन्द्रसूरिः' इति नाम निरमायि ।