________________
ॐ अर्हं नमः
किञ्चित प्रास्ताविकम्
AAAAAAAARAAAK
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्ता निर्मितः सिद्धहेमचन्द्रशब्दानुशासननामायं ग्रन्थमणिः । अत्र 'सिद्ध-हेमचन्द्र शब्दानुशासन' इति शब्दत्रयी विशिष्टार्थसूचिका, तथाहि - सिद्धराजेन प्रार्थितत्वात् 'सिद्ध' इति नाम्ना, हेमचन्द्रेण निर्मितत्वात् ' हेमचन्द्र' इति नाम्ना चाङ्कितं यत् शब्दानुशासनं - व्याकरणं तत् सिद्धहेमचन्द्रशब्दानुशासनम्, गुर्जरेश्वर सिद्धराजनृपतिप्रार्थनया हेमचन्द्रसूरिणा निर्मितं प्रस्तुतव्याकरणमित्यर्थः । यदाह स्वयमेव प्रान्ते
" तस्यान्वये समजनि प्रबल प्रताप
तिम्मद्युतिः क्षितिपतिर्जयसिंहदेवः ॥ येन स्ववंश सवितर्यपरं सुधांशौ,
श्री सिद्धराज इति नाम निजं व्यलेखि ॥ ३३ ॥
तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासन समूहकदर्थितेन ॥
अभ्यर्थितो निश्वमं विधिवद् व्यधत्त,
शब्दानुशासनमिदं मुनि हेमचन्द्रः ॥ ३५ ॥
79
[ - इति सिद्धम० पुष्पिकायाम् ]
अनुरणितोऽर्थत्वयम् — सिद्धं व्याकरणनिकरे प्रतिष्ठां प्राप्तम् । पुनः हेमं " हिंदू गतिवृद्धयोः " इति वचनादू हिनोति सरलता - विमलता - परिपूर्णता दिगुणेनाध्ये तृणामध्यापकानां च मध्ये काञ्चनमिव उपादेयतां गच्छतीति मम्, यद्वा हिनोति वर्धते ख्यातेतिगुणेनेति हेमम्, पुनः चन्द्रं " चदु दीत्याहादनयोः" इति वचनात् चन्दति दीप्यते व्याकरणनिचये तारागणे शशीवेति यद्वा चन्दति आह्रादयति व्याकरणतत्वपिपासून चकोरान् चन्द्र इवेति चन्द्रम् | अनुशिष्यन्ते व्युत्पाद्यन्ते प्रकृतिप्रत्ययादिविभागेन साधुशब्दा अनेनेति अनुशासनम् । शब्दानां साधुशब्दानामनुशासनं शब्दानुशासनम्, ततः कर्मधारये सिद्धहेमचन्द्रशब्दानुशासनम् । शब्दानुशासन सन्दोहे प्रतिष्ठितं काञ्चनवदुपादेयं ख्यातिभाजनं चन्द्रवद् दीप्यमानमाह्लादकं साधुशब्दसाधकं च प्रस्तुतव्याकरणमिति फलितोऽर्थः । यदुक्तम् —