________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) अयुक्ता, विहितोत्तरत्वात् । यस्मादेवं तस्मात् समुत्सारितपक्षपातैः न्यायविद्भिर्युक्तियुक्तत्वात् सदसद्रूपं वस्त्वङ्गीकर्तव्यमिति ।
(स्त्रो० व्या.) एषाऽप्ययुक्ता आशङ्का । कुत इत्याह-विहितोत्तरत्वात्, न स्वरूपसत्त्वमेव पररूपासत्त्वमित्यादिना । अनन्तरोदितमपि श्लोकद्वयं सदसद्रपवस्तुव्यवस्थापकमेव, तत्त्वतोऽन्यरूपाभावमन्तरेण अन्यतोऽन्यव्यावृत्त्यसिद्धेः, खव्यावृत्तिवद् व्यावृत्त्यन्तराभावे न प्रकल्पना बीजाभावादिति निलोठितमेतदर्थतः । यस्मादेवं १० तस्मात् समुत्सारितपक्षपातैायविद्भिर्युक्तियुक्तत्वात् कारणात्
(विवरणम्) भावा:-बाह्याभ्यन्तररूपाः पदार्थाः स्वभावेन-निजसत्तालक्षणेन 'व्यावृत्तिभागिनः' इत्युत्तरेण योगः। कुत इत्याह-स्वस्वभावव्यवस्थितेः स्वस्मिन् स्वस्मिन् भावे सत्त्वरूपे व्यवस्थितेः-व्यवस्थानात् । काभ्यां सकाशाद् व्यावृत्तिभागिन इत्याह-स्वभाव-पर१५ भावाभ्यां स्वः-स्वकीयो भावः स्वभावो घटस्य घटान्तरलक्षणः, परः-परकीयो
भावः परभावो घटस्यैव पटादिः, ताभ्यां व्यावृत्तिभागिन:-पार्थक्यभाजः । सर्वे हि भावाः सर्वासाधारणरूपभाजो वर्तन्ते । ततः सजातीयाद् विजातीयाञ्च पदार्थराशेः स्वसत्त्वेनैव स्वरूपनियतेन स्वभिन्नव्यावृत्त्यंशनिरपेक्षेण व्यावृत्तिं भजन्त इति । एवं सति किं सिद्धमित्याह-(पृ. ६३) तस्मात्-स्वपरव्यावृत्तिरूपाखेतोर्यतो यतः-सजातीयाद् २० विजातीयाद् वाऽर्थात् अर्थानां-घटादीनां व्यावृत्तिः-भिन्नरूपता तन्निबन्धना:व्यावृत्तिहेतुका जातिभेदाः परस्परपरिकल्पितसामान्यलक्षणाः प्रकल्प्यन्ते । कीदृशा इत्याह-तद्विशेषावगाहिन इति । तस्य-स्वस्य परिव्यावृत्तिभाजः स्खलक्षणस्य विशेषाः-'मातव(त्व?)-'पाटलिपुत्रक'त्व-वासन्तकत्व-रक्तत्वादिलक्षणास्तान विकल्प
बलाद्यान् अवगाहन्ते अवलम्बन्त इत्येवंशीला ये ते तथा । न हि निरंशे वस्तुनि २५ अत एव स्वरूपमात्रनियते केचिद् विशेषाः सन्ति, परं तत्तद्द्यावृत्तिवशेन विकल्पविज्ञानसन्निधापिता अतत्त्वदर्शिभिः प्रमातृभिर्व्यवद्वियन्ते, यथा-मार्त्त इति कोऽर्थः । अमातॊ न भवति । 'पाटलिपुत्रक' इति कोऽर्थः ? । अ पाटलिपुत्र'को न भवति । इत्यादि ।
१प्रेक्ष्यतो ३९तमं पृष्ठं ४०तमं च । २ 'व्यावृत्तिसिद्धेः' इति उ-पाठः। ३ 'बीजभावादिति' इति ङ-पाठः । ४ 'रूपाः खभावेन पदार्थाः निजः' इति च-पाठः। ५ 'याचार्थात् अर्थाना' इति ख-च-पाठः । ६ 'वर्तमानपाटलिपुत्र.' इति क-पाठः। ७ 'धान्यानवगाहन्ते' इति ख-च-पाठः ।