________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) ततश्च तद् यत एव सत्, अत एवासत्, परद्रव्यादिरूपासत्त्वे सति खद्रव्यादिरूपेण सत्त्वात् । यत एव चासत्, अत एव सत्, खद्रव्यादिरूपसत्त्वे सति परद्रव्यादिरूपेणासत्वात् । अत एव चैकत्र ५ सदसत्त्वयोर्विरोधोऽपि न सम्भवति, भिन्ननिमित्तत्वात्, खद्रव्य. परद्रव्यादीनां सदसद्धेतुत्वात् , अनुभवसिद्धत्वाच । तथाहि-स्वपररूपानुवृत्तव्यावृत्तरूपमेव तद् वस्त्वनुभूयते ॥ स्यादाशङ्का-स्वरूपाच्यावृत्तिरेव पररूपत्र्यावृत्तिरिति । एषाऽपि
(खो० व्या० ) रूपेण सत् परद्रव्यादिरूपेण चासदित्युक्तमिति निमित्तभेदः । ततश्चेत्यादि । ततश्च तत्-वस्तु यत एवं सत्, अत एवासत् । कुत इत्याहपरद्रव्यादिरूपासत्त्वे सति तदनात्मकत्वेन खद्रव्यादिरूपेण सत्त्वात् । लथा यत एव चासत्, अत एव सत्, तदिति प्रक्रमः । युक्तिमाह-खद्रव्यादिरूपसत्त्वे सति भावात्मकत्वेन परद्रव्यादिरूपेणासत्त्वात् । अत १५ एवेत्यादि । अत एव च कारणात् एकत्र-वस्तुनि सदसत्त्वयोर्विरोधोऽपि न सम्भवति, भिन्ननिमित्तत्वात् कारणात् स्वद्रव्य-परद्रव्यादीनाम् । किमिसाह-सदसद्धेतुत्वात्, स्वद्रव्यादयः सत्त्वकल्पनाया निमित्तम् , परद्रव्यादयश्च असत्त्वकल्पनाया इति । तथा अनुभवसिद्धत्वाच एकत्र सदसत्त्वयोर्विरोधोऽपि न सम्भवति । एतद्भावनायाह-तथाहीत्यादि । तथाहि स्वपररूपाभ्यां यथा- २० सङ्ख्यं अव्यावृत्तव्यावृत्तरूपमेव तद् वस्त्वनुभूयते । अनुभवे च सद्बोधाद्यनेकरूपतायामिव को विरोधः १ ॥
स्यादाशङ्केत्यादि । स्यादाशङ्का स्वरूपाच्यावृत्तिरेव एकरूपा पररूपव्यावृत्तिरिति । आह च--
"सर्वे भावाः स्वभावेन स्वखभावव्यवस्थितेः। स्वभाव-परभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥ तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तनिवन्धनाः।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥३ इत्यादि ॥
(विवरणम्) (२५) सर्वे भावाः स्वभावेनेत्यादि कारिकाद्वयम् । अथास्य व्याख्या-सर्वे १ 'कल्पनानिमित्तम्' इति क-क-पाठः। २-३ अनुष्टुप् ।