________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् ).
असद्बुद्ध्याऽवगमात् । न चातदनुवेधतः तथा तदसत्त्वप्रतीतिहेतुता, अन्यगतनिजासत्त्वेन व्यभिचारात् । तथाहि नान्यगतं ५ तदसत्वं तत्रासवप्रतीतिकारणम्, तेनाननुवेधात् इत्येवमन्यदपि कुचोद्यमनया दिशा परिहर्तव्यमिति ॥
ततश्चैवं न सर्वथा सत्वमसत्वपरिहारेण व्यवस्थितम्, म चासत्त्वं सत्वपरिहारेण । न चानयोरविशेष एव, भिन्ननिमित्तत्वात् । तथाहि - स्वद्रव्यादिरूपेण सत् परद्रव्यादिरूपेण चासदित्युक्तम् । ( स्वो० व्या० )
असदबुद्ध्या प्रक्रमादवाद्यसत्त्वविषयया अवगमात् परिच्छेदात् न तत्स्वभावानां तया तथाऽवगमः, शुक्लानामिव नीलतयेति भावनीयम् । न चेत्यादि । न च अतदनुवेधतः - अबाद्यसत्त्वाननुवेधतः तथा - इतरेतररूपापत्त्या तदसत्त्वप्रतीतिहेतुता तेषाम् - अन्यवस्तुसत्त्वानाम् अवाद्य सत्त्वप्रतीतिकारणतेति भावः । कुत १५ इत्याह-अन्यगत निजासत्त्वेन तथा तदननुवेधतः कारणाद् व्यभिचारात् । एतद्भावनायैवाह - तथाहीत्यादि । तथाहीत्युपप्रदर्शने । नान्यगतं - पृथिव्यादिगतं तदसत्त्वम्-अबाद्यसत्त्वं तत्र - अबादौ असत्त्वप्रतीतिकारणम् । कुत इत्याह- तेनाननुवेधात् तेन - अवाद्यसत्त्वेनाननुवेधाद्धेतोः, अतोऽबाद्यसत्त्वेनाननुवेधोऽन्यवस्तुसत्त्वानाम्, अन्यथा त्वबादिसत्त्ववत् तदसत्त्वप्रतीत्यभाव इति भावना । २० इत्येवमन्यदपि कुचोद्यम् अनेकान्ते अनया दिशा परिहर्तव्यमिति ।
ततश्चेत्यादि । ततश्च एवम् उक्तेन प्रकारेण न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्त्वं सत्त्वपरिहारेण, व्यवस्थितमिति वर्तते । न चानयोः - सत्त्वासत्त्वयोः अविशेष एव अभेद एव । कुत इत्याह-भिन्ननिमित्तत्वात् । एतदेव भावयति तथाहीत्यादिना । तथाहि स्वद्रव्यादि(विवरणम् ) २५ (१३) इतरेतररूपापच्येति । सत्त्वासत्त्वयोरेकवस्तुस्वभावतया इतरेतररूपा
पत्तिः प्रागत्र प्रतिपादिता तयाऽननुवेधे अनुवेधाभावे इति योजना कार्या, सवासत्त्वयोः परस्परमनुवेधाभावे इत्यर्थः । अनुभवे च सैद्बोधाद्यनेकरूपतायामिव को विरोध इति ? | अनुभवे च स्वयमेव संवेद्यमानतायां पुनः संद्बोधाद्यनेकरूपतायामिव ३० सदादिरूपतायां - बोधादिरूपतायां च को विरोध: ? । न कश्चिदित्यर्थः । तत्र सदादिरूपता सत्त्व-नीलत्व- रक्तत्वादिरूपतया घटादेरर्थस्य बोधादिरूपता च बोध-हर्षविषाद- दैन्यादिरूपा ज्ञानगता ||
१०
६२
5
3
[ प्रथमः
१ तथा न सदसत्त्व०' इति क-पाठः । २ प्रेक्ष्यतां ३६तमं पृष्ठ ४० तमं च । ४-५ 'स द्वेधाद्यनेक०' इत्युभयत्र क - पाठः ।
पृष्ठम् । ३ समीक्ष्यत ३९ तमं ६ 'वेधादि०' इति क-पाठः ।