________________
६१
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) अथवा विश्वजगदन्तर्गतानां सकलवस्तुसत्त्वानामेव तदसत्वानुवेधः, अन्यथा खवरूपवत् तेषु तत्सत्त्वापत्तिः। न च वस्त्वन्तरेणाप्यनुवेध इष्यत इति न विभुत्वप्रसङ्गः । न च तदसत्त्वेनाननु- ५ वेधस्तस्य, तदन्यानात्मकेनानुवेधात् । न चेत्थं तत्सदेशतापत्तिः, तदन्येषामेव तत्वतस्तदात्मकत्वात्, न चात एव तत्सद्रूपतैव,
(स्वो० व्या०) परिहारान्तरमाह अथवेत्यादिना । अथवा विश्वजगदन्तर्गतानां सकलवस्तुसत्त्वानामेव । किमित्याह-तदसत्वानुवेध:-अबाधसत्त्वानुवेधः । इत्थं १० चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे, खखरूपवदिति दृष्टान्तः, अबादीनामात्मीय इव स्वरूपे तदसत्वाननुवेधात् कारणात् तेषुसकलवस्तुसत्त्वेषु तत्सत्त्वापत्तिः-अबादिसत्त्वापत्तिः । न चैवम् , इत्यतस्तदसत्त्वानुवेधस्तेषामिति स्थितम् । यदि नामैवं ततः किमित्याह-न चेत्यादि । न च वस्त्वन्तरेणापि सह अनुवेध इष्यते, पार्थिवद्रव्यसत्त्वस्येति प्रक्रमः । इति-१५ एवं न विभुत्वप्रसङ्गः, घटस्येति वर्तते । न चेत्यादि । न च तदसत्त्वेनअबाधसत्त्वेन अननुवेधस्तस्य-पार्थिवद्रव्यसत्त्वस्य । कुत इत्याह-तदन्यानात्मकेन-अपरासंसृष्टेन अनुवेधाद् असत्त्वेन । न चेत्यादि । न च इत्थम्-एवं तत्सदेशतापत्ति:-अबाधसत्त्वसदेशतापत्तिः । कुत इत्याह-तदन्येषामेव वस्तुसत्त्वानां तत्त्वतः-परमार्थेन तदात्मकत्वात्-अबाधसत्त्वात्मकत्वात् । न २० पुनरबाद्यसत्त्वं केवलं नाम यस्य सदेशतापत्तिरित्यर्थः । न चेत्यादि । न च अत एव कारणात् तत्सद्रूपतैव तदन्येषां-वस्तुसत्त्वानां सद्पतैव । कुत इत्याह
(विवरणम्) कथमबाधसत्त्वाक्षिप्त पार्थिवद्रव्यसत्त्वस्य विभुत्वं प्रसज्यते, नियतरूपया पार्थिवद्रव्यसत्त्वाकोडितस्य अबाद्यसत्त्वस्य अन्यत्र वृत्तेरभावात् ? । एतावताऽभिप्रायेण प्रथमः २५ परिहारः ॥
अथवेत्यादि ग्रन्थोक्तं तु परिहारान्तरम् । अबाधसत्त्वस्यैव प्रति पृथिव्यादिसत्त्वमन्यान्यरूपेण वर्तनान्न तदाक्षिप्तं कस्यचिद् घटादेर्विभुत्वमापद्यते इत्यपेक्षयति ॥
(१८) अपरासंसृष्टेनानुवेधादिति । अवाद्यसत्त्वेनापरैः-पटादिभिरसंसृष्टेन घटस्यानुवेधात् । एवं हि घटात्मकमबाधसत्त्वं न पटादौ, यच्च पटादौ तन्न घटे । ३० कथमबाद्यसत्त्वस्य सामान्येन व्यापित्वेऽपि घटस्य व्यापित्वं प्रसज्यते, अबाधसत्त्वविशेषाकोडितत्वाद् घटादिसत्त्वस्येति ॥ - १ 'तत्त्वनो(तो)ऽतदा०' इति ग-पाठः। २ 'नानुवेना(?)वेधादिति' इति ख-पाठः ।