________________
१०.
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) लब्धेः। न च नानात्वमेव, तव्यवस्थायोगात् तथाऽनुपलब्धेः। इत्यन्योन्यानुविद्धं भेदाभेदवृत्ति तत्व भावं विशिष्टमुभयमेव तत्, ५ अन्यथा वस्तूनां वैशिष्ट्यानुपपत्तिरिति। एतेन “अबादेनियतदेश
खरूपव्यतिरेकेण सर्वत्रासत्त्वात् तस्य च पार्थिवद्रव्यसत्त्वेनानुवेधा. भ्युपगमात् तद्व्याप्तेर्घटस्य प्रायो विभुत्वप्रसङ्गः” इत्येतदपि कुशाग्रीयबुद्धिपरिचोदितं परिहतमवगन्तव्यम् , 'वस्त्वेव तत् सदसदास्मकम्' इत्यादेर्ग्रन्थस्यान्यथा भावार्थायोगात् ॥
___ (खो० ब्या०) उभयोपलब्धेः उक्तवत् सदसत्प्रत्ययभावादिति । न च नानात्वमेव एकान्तेनअनयोरिति, तव्यवस्थायोगात् तयोः-स्वरूपसत्त्व-पररूपासत्त्वयोः व्यवस्थायोगात् तथाऽनुपलब्धेः-नानात्वेनादर्शनात् । इति-एवम् अन्योन्यानुविद्धं मेचकमणिवर्णकल्पनया भेदाभेदत्ति एकान्तभेदाभेदवृत्ति एकान्तभेदाद्य१५ पोहेन तत्वभाव-भेदाभेदवृत्तिस्वभावं विशिष्टम्-इत्थमेव नियतं तथास्वभावतया उभयमेव-स्वरूपसत्त्वपररूपासत्त्वोभयमेव तत्-वस्तु । अन्यथा-एकमनभ्युपगमे वस्तूनां-घटादीनां वैशिष्ट्यानुपपत्तिरिति । एतेन-उक्तवत् उभयरूपत्वव्यवस्थापनेन अबादेनियतदेशस्त्ररूपव्यतिरेकेण सर्वत्रा
सत्त्वात्। तथाहि-यत्रैवाबादयस्तत्रैव ते, अन्यत्र तु तदभावः । तस्य च-अबाध२० सत्त्वस्य पार्थिवद्रव्यसत्त्वेनानुवेधाभ्युपगमात् कारणात् । कुत इत्याहतव्याप्तेः-पार्थिवद्रव्यसत्त्वव्याप्तेः । किमित्याह--घटस्य प्रायः-बाहुल्येन अबादेनियतदेशस्वरूपं विहाय विभुत्वप्रसङ्गः-सर्वगतत्वापत्तिः, यथोदितपार्थिवद्रव्यसत्त्वात्मकत्वाद् घटस्येति भावः इति एतदपि चोचं कुशाग्रीयबुद्धि
परिचोदितं-सूक्ष्मबुद्धिपरिचोदितं परिहृतमवगन्तव्यम् । कुत इत्याह२५ वस्त्वेव तत् सदसदात्मकमित्यादेर्ग्रन्थस्य-अनन्तरोदितस्य अन्यथाप्रकारान्तरेण भावार्थायोगादिति भावनीयमेतत् ॥
(विवरणम्) (२६) भावार्थायोगादिति । यथाहि-पार्थिवद्रव्यसत्त्वं स्वरूपनियततया नान्यत्र वृत्तिमवलम्बते तदा कथं तदन्यत्रापि विद्यमानमवायसन्स्वभावं सम्पद्यते इति ।
१ 'अनेन' इति क-पाठः। २ समीक्ष्यतां ५९तम पृष्ठम् । ३ 'उभयोरुपलब्धेः' इति क-पाठः । ४ 'वृत्ति एकान्तभेदाद्यपोहेन' इति घ-पाठः । ५ 'यदा हि' इति ख-च-पाठः ।