________________
अधिकारः]
खोपज्ञव्याल्यामुनिचन्द्रीयविवरणयुतम्
सतः प्रतिषेधात् तस्य च तत्रासत्त्वात् तत्स्वरूपसत्त्वानुवेधात् न निरुपाख्यमेव तत् इति प्रसज्यप्रतिषेधपक्षोदितदोषाभावः ॥ . पर्युदासप्रतिषेधपक्षदोषस्त्वत्र व्यतिकरेऽनभ्युपगमादेव न नः ५ क्षतिमावहति । एतदुक्तं भवति-वस्त्वेव तत् सदसदात्मकम् , न तत्र खरूपसत्त्वपृथग्भूतं पररूपासत्त्वम्, न च पररूपासत्त्वासम्पृक्तं खरूपसत्त्वम् । न चानयोरेकत्वमेव, अविगानतः सम्यगुभयोप
(स्वो० व्या०) सतः प्रतिषेधात् तस्य च-परद्रव्यादिरूपेण सतः तत्र-विवक्षितसत्वे. असत्त्वात् तत्स्वरूपसत्त्वानुवेधात् तत्स्वरूपस्य तत्प्रतिषेधायातासत्त्वरूपस्य सत्त्वानुवेधात्-विवक्षितसत्त्वानुवेधात् कारणात् न निरुपाख्यमेव-तुच्छमेव तत्-असत्त्वम् । इति एवं प्रसज्यप्रतिषेधपक्षोदितदोषाभावः ॥
पर्युदासप्रतिषेधपक्षदोषस्त्वत्र व्यतिकरे उभयरूपवस्तुचिन्ताऽधिकारे अनभ्युपगमादेव कारणात् न न:-नास्माकं "क्षतिमावहति। भावार्थमाह--- १५ एतदुक्तं भवति-वस्त्वेव तत् सदसदात्मकं-शबलम् , न तत्र-वस्तुनि खरूपसत्त्वपृथग्भूतम् अन्यदेव पररूपासत्त्वम् , न च पररूपासत्त्वासम्पृक्तं स्वरूपसत्त्वं केवलम् । न चानयोः-खरूपसत्त्व-पररूपासत्त्वयोः एकत्वमेव सर्वथा, अविगानत:-अविगानेन सम्यक्-तद्भावभावित्वनीतितः
विवरण) (१०) परद्रव्यादिरूपेण सतः तत्र-विवक्षितसत्त्वे असत्त्वादिति । इह सर्वेऽपि भावाः स्वरूपमात्रनियताः न पररूपेण स्वसत्त्वमपेक्षन्ते । ततः परद्रव्यादिरूपेण प्रतीतलक्षणेन सतः-घटादेर्वस्तुनः प्रतिषेधादसदित्यनेन ध्वनिना तस्य च परस्यपटादेः परद्रव्यादिरूपेण सतः-विद्यमानस्य तत्र-विवक्षितसत्त्वे-घटादौ असत्त्वात्'अविद्यमानत्वात्। एवं च यद्यपि परस्परापेक्षया घटपटादयः पदार्थास्तुच्छरूपाः २५ संवृत्तास्तथापि तुच्छतायाः स्वसत्तानुवेधात् प्रसज्यप्रतिषेधेऽपि नात्यन्तं तुच्छरूपतेति ॥
(१९) तद्भावभावित्वनीतित इति । तद्भावे-सत्त्वासत्त्वभावे भवतीत्येवंशीला तद्भावभाविनी तस्या भावस्तत्त्वं तदेव नीतिस्ततः सर्वलोकाविगानेन ह्युभयोपलब्धिः । सत्त्वासत्त्वसद्भावभाविन्येवोपलभ्यते, न तु तदभावे । अतः कथं सत्त्वमात्रनियतैवासौ स्यादिति ? ॥ - १ क्षिति०' इति क-पाठः । सोऽपि न्याय्यः, यतः किं क्षये' इत्यस्य क्तौ रूपम्। २ 'रूपेणासतः' इति -पाठः । ३ “विवक्षितत्वे' इति कु-पाठः । ४ 'तत्प्रतिषेधा यतो सत्त्व.' इति ङपाठः । ५ क्षितिमा.' इति क-पाठः। ६ "विज्ञानेन' इति क-पाठः ।
२०