________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[प्रथमः (मूलम्) प्रमाणगोचरातीतत्वाद् वस्तुधर्मत्वानुपपत्तिः, अभ्युपगमे बा
वस्तुन एव निरुपाख्यत्वप्रसङ्गः । तथाहि-न निरुपाख्यखभावं ५ सोपाख्यं भवितुमर्हति ॥
अथ सतोऽन्यदसत् सदन्तरमेवासदिति । एवमपि तस्य सदात्मकत्वादेव सदसद्रूपत्वानुपपत्तिः। तथाहि-नसत् सदन्तरात्मकमिति सचेतसो वक्तुं युज्यत इति । एतदप्ययुक्तम् , भगवदहेन्मतापरिज्ञानात् । भगवदर्हन्मतं हि वस्त्वेव सदसद्रूपतयोभयात्मकम्, न १० सत्वाननुविद्धमसत्वं नाम तत्र यदपेक्षयैतदुभयरूपमिति । उक्तं च वोदिमुख्येन-"स्वपरसत्वव्युदासोपादानापाधं हि वस्तुनो वस्तुस्वम् ।” अतो यद्यपि सन्न भवतीत्यसत्, तथापि परद्रव्यादिरूपेण
(खो० व्या०) षेधरूपम् । ततः किमित्याह-ततश्च तस्य-असतः प्रमाणगोचरातीतत्वात् १५ कारणाद् वस्तुधर्मत्वानुपपत्तिः। अभ्युपगमे वाऽसतो वस्तुधर्मत्वस्य । किमित्याह-वस्तुन एव निरुपाख्यत्वप्रसङ्गः । तथाहि-न निरुपाख्यखभावं-न तुच्छधर्मकं सोपाख्यं भवितुमर्हति-अतुच्छं भवितुमर्हति ॥
द्वितीयं विकल्पमधिकृत्याह-अथेत्यादि । अथ सतोऽन्यदसत् सदन्तरमेवासत् पर्युदासरूपम् इति । एवमपि तस्य-असतः सदात्मकत्वादेव २० कारणात् सदसद्रूपत्वानुपपत्तिः वस्तुनः । तथाहीत्यादि । तथाहि न सत् सदन्तरात्मकमिति-एवं सचेतसो वक्तुं युज्यते, प्राप्नोति चैतत् अस्मिन् पक्षे असतोऽपि सदन्तरत्वादिति । अत्राह-एतदप्ययुक्तम् । कुत इत्याह-भगवदहन्मतापरिज्ञानात् । कथमपरिज्ञानमित्याह-भगवदर्हन्मतं हि-यस्माद वस्त्वेव-आत्मघटादि सदसद्रूपतयोभयात्मकं वर्तते, न २५ सत्त्वाननुविद्धमसत्त्वं नाम तत्र-वस्तुनि यदपेक्षयैतदुभयरूपं वस्तु इति । उक्तं च वादिमुख्येन-मल्लवादिना 'सम्म(न्म)तौ-खपरेत्यादि । स्वपरसत्त्वयोर्यथायोगं ये व्युदासोपादाने 'ताभ्यामापाद्यते व्यवहारविषयतयेति एवम्भूतमेव वस्तुनो वस्तुत्वम् । अतो यद्यपि सन्न भवतीत्यसत् प्रसज्यप्रतिषेधरूपम् , तथापि परद्रव्यादिरूपेण
१ सद्रूपानुप०' इति क-पाठः । २ श्रीमल्लवादिसूरिणा। ३ 'निरुपाख्यप्रसनः' इति ङ-पाठः । ४ सन्मतिप्रकरणटीकायामित्यर्थः। ५ 'ये' इति पाठो नास्ति ङ-प्रतौ। ६ 'ताभ्यामपोद्यते' इति -पावः ।