________________
अधिकारः ] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
स्वसत्त्वासत्त्ववदसत्त्वात् तद्रूपेणाप्यस्तित्वप्रसङ्गः, अनिष्टं चैतदिति । स्यादेतत् पार्थिबद्रव्य सत्त्वव्यतिरिक्तमबाद्यसत्त्वं परिकल्पितम्, पार्थिवद्रव्यसत्त्वमेव पुनरबाधसत्त्वस्वभावमिष्यत एवेति, अतो-५ saपराध इति । अहो दुरन्तः स्वदर्शनानुरागः, प्रत्युक्तमपि नावधारयति, यतो न च तद् येनैव स्वभावेन पार्थिवद्रव्यत्वेन सत् तेनैवावादिद्रव्यत्वेनासत् इत्यादि तदेवावर्तत इत्यलं खदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेनेति ॥
५७
अपरस्त्वाह- सदसद्रूपं वस्त्वित्यन्त्रासत्पक्षे प्रसज्यप्रतिषेधो वा " स्यात्, पर्युदासो वा । किश्चातः । उभयथाऽपि दोषः । तथा हि-यदि सन्न भवतीत्यसत्, सन्निवृत्तिमात्रं निरुपाख्यमसत् । ततश्च तस्य
( स्वो० व्या० ) स्वसत्त्वासत्त्ववदस स्वात् । किमित्याह तद्रूपेणापि - अबादिद्रव्यसत्त्वरूपेणापि अस्तित्वप्रसङ्गः पार्थिवद्रव्यसत्त्वस्य । अनिष्टं चैतदिति । तथाहि न तत्र स्व- १५ सत्त्वासत्त्वमिति स्वसत्त्वम्, एवमबाद्यसत्त्वाभावे स्यात् तत्सत्त्वम्, अन्यथा तदभावाभाव इति भावना | स्यादेतदित्यादि । स्यादेतत् - अथैवं मन्यसे पार्थिवद्रव्य
व्यतिरिक्तं धर्मान्तरम् अबायसत्त्वं परिकल्पितम् पार्थिवद्रव्यसत्त्वमेव पुनः एकरूपम्, अधाद्यसत्त्वस्वभावं वस्तुस्थित्या इष्यत एवेति, अतः -'अस्मात् कारणात् अनपराध इति-नास्ति कश्चिद् दोषः । एतदाशङ्कयाह - २० अहो दुरन्तः स्वदर्शनानुरागः । कथमित्याह - प्रत्युक्तमपि नावधारयति एतत्सामर्थ्यात् एतदेवाह यत इत्यादिना । यतो न च तद् येनैव स्वभावेन पार्थिवद्रव्यत्वेन सत् तेनैवावादिद्रव्यत्वेनासत् इत्यादि तदेवावर्तते पूर्वोक्तं चक्रकम् इत्यलं स्वदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन नैव प्रज्ञापनाविषयः ॥
"
२५
अपरस्त्वाह- सदसद्रूपं बस्त्वित्यन्त्रासत्पक्षे प्रसज्यप्रतिषेधो वा स्यात् सन्न भवतीत्यसत्, पर्युदासो वा सतोऽन्यदसदिति । किञ्चात इत्याहउभयथाऽपि दोषः । कथमित्याह - तथाहीत्यादि । तथाहि यदि सन्न भवति इत्यसत् । किमुक्तं भवति ? । सन्निवृत्तिमात्रं निरुपाख्यमसत् प्रसज्यप्रति
१ ‘तस्मात्' इति ङ-पाठः । २ एतत्सामर्थ्यादुभयथाऽपि एतदेवाह' इति ङ-पाठः । ३ 'तदेवाह य (त) इत्यादिना' इति ङ-पाठः ।
अनेकान्त • ८