________________
अनेकान्तजयपताकाख्यं प्रकरणम् । [प्रथम
(मूलम् ) सर्वथाऽनुपाख्यत्वासिद्धः, असत्प्रत्ययाविरोधाच । असदननुविद्धस्य च सतस्तन्मात्रत्वाद् विशेषानुपपत्तेरितरेतरानुवेध इति कुत एक५. खभावत्वसिद्धिः? । स्यादेतत् तत्राबादिद्रव्यासत्त्वस्य परिकल्पितत्वात् यथोक्तदोषाभाव इति । सोऽयं 'गडप्रवेशेऽक्षितारकाविनिगम'न्यायः । तथाहि-तत्राबादिद्रव्यासत्त्वस्य परिकल्पितत्वात्
(खो० व्या०) नेत्यादि । न-नैतदेवम् । कुत इत्याह-सदनुवेधेन-पार्थिवद्रव्यसत्त्वानुवेधेन हेतुना ३० सर्वथा-सर्वैः प्रकारैः अनुपाख्यत्वासिद्धेः अबाद्यसत्त्वस्य । उपपत्त्यन्तरमाह'असत्प्रत्ययाविरोधाच । असत इति प्रक्रमः । सत इवासतोऽसत्प्रत्ययभाव इति भावः । सदनुवेधेनेत्यादिमौलं हेतुं समर्थयन्नाह-असदित्यादि । असदननुविद्धस्य चसतः-पार्थिवद्रव्यसत्त्वादेः तन्मात्रत्वात्-सन्मात्रत्वात् , विशेषानुपपत्तेः कारणात् इतरेतरानुवेधः सदसतोः इति-एवं कुत एकखभात्वसिद्धिः? | १५ नैवेत्यर्थः । स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे । तत्र-पार्थिवद्रव्यसत्त्वे
अबादिद्रव्यासत्त्वस्य परिकल्पितत्वात् कारणात् । किमित्याह-यथोक्तदोषाभाव इति-उभयरूपत्वाभावः, परमार्थतस्तदसत्त्वादिति । एतदाशङ्कयाहसोऽयमित्यादि । सोऽयं 'गडप्रवेशेऽक्षितारकाविनिर्गम'न्यायः । प्रस्तुतदोषपरिहारेणाधिकतरदोषान्तरापत्तिरित्यर्थः । एतदेवाह तथाहीत्यादिना । तथाहि २० तत्र-पार्थिवद्रव्यसत्त्वेऽबादिद्रव्यासत्त्वस्य परिकल्पितत्वात् परमार्थतः
(विवरणम्) गमप्रसङ्गात् । एवं महावीरविज्ञानेऽपि तत् सर्वात्मनैव व्यापृतम् । ततश्च यथाऽनेकखभावेन वस्तुना सर्वात्मना एकविज्ञानजननव्यापृतेनापि सता विज्ञानान्तरमपि जन्यते, तथा अस्मन्मतेऽपि एकस्वभावेनैव स्तम्भादिना यद्यनेकं विज्ञानं जनयिष्यते २५ तदा किं नाम भवतः क्षुण्णं स्यादिति परस्याशयः । सत इवासतोऽसत्प्रत्ययभाव :. इति । यथाहि-सतः सकाशात् सत्प्रत्ययस्तथाऽसतोऽसत्प्रत्ययो भवति, अनुरूपकारण
प्रभवत्वात् सर्वकार्याणामिति ।। . (१८) 'गडुप्रवेशेऽक्षितारकाविनिर्गम'न्याय इति । कस्यचिदक्षिसमीपे तथाविधवाधाविधायकं गडूत्पन्नम् । ततश्च केनचिद् भिषजा तथाविधौषधप्रयोगेण तथा ३० उपचरितं. यथाऽक्षिमध्ये तत् प्रविवेश । प्रविष्टे च तत्राक्षिणि तत्क्षणादेव तदुत्पा___टिंता कनीनिका अक्षितारि(?र)का बहिर्निर्जगामेति प्रस्तुतदृष्टान्तार्थः॥
. १ 'असत्प्रत्ययासिद्धे (१) विरोधाच' इति -पाठः। २ 'असताऽपि एकस्वभावेनैव स्तम्भादिना ययनक" इति ख-पाटः । ३ 'क्षुणं' इति च-पाठः। ४ 'सत्सकाशात्' इति क-पाठः । ५ 'तारिकावि०' इति च-पाठः ।