________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
५५
यथाऽनेकखभावं तत् सर्वेषां सर्वदर्शिनाम् । करोत्यनेकं विज्ञानमिदमित्थं कथं न ते ? ॥ खरूपमेव सर्वेषां सर्वज्ञानां तथाविधम् । विज्ञानं न तु तत् तेन तत्त्वतः क्रियते यतः॥' अतीतादेरसत्त्वेन न स्याद् ग्रहणमन्यथा ।
तस्यापि ज्ञानकर्तृत्वेऽतीतत्वादिविरोधतः ॥१३ नच पार्थिवद्रव्यसत्वप्रत्यय एवाबाद्यसत्त्वप्रत्यया, तथाऽप्रतीते। असतोऽनुपाख्यत्वेन प्रत्ययहेतुत्वानुपपत्तिरिति चेत्, न, सदनुवेधेन .
(खो० व्या०) आह-यथेत्यादि । यथाऽनेकखभावं तत् काल्येनैवैकत्रोपयोगमधिकृत्य सर्वेषां सर्वदर्शिनां वीतरागाणां करोत्यनेकं विज्ञानं यावन्तस्ते, अन्यथा तदसर्वदर्शित्वप्रसङ्गात् । इदम्-अधिकृतं 'वस्त्वेकस्वभावमेव इत्थं कथं म तेतव करोत्यनेकं विज्ञानं काल्योपयोगाविशेषादिति ?। ___ अनोत्तरम्-स्वरूपमित्यादि। स्वरूपम् एव सांसिद्धिकं सर्वेषां सर्वज्ञानां वीतरागाणां तथाविधं-तत्काल्यग्रहणप्रकारं विज्ञानं न पुनः तत् तेनवस्तुना तत्त्वतः-परमार्थतः क्रियते यतः, अतो नेदमित्थं ममेति योजना। __इत्थं चैतदङ्गीकर्तव्यमित्याह-अतीतादेरित्यादि । अतीतादेर्भावस्य असत्वेन हेतुना न स्याद ग्रहणम् , अन्यथा-एवमनभ्युपगमे न ह्यसत् ज्ञानकर्तृ । तथा २० चाह-तस्यापि-अतीतादेः ज्ञानकर्तृत्वेऽभ्युपगम्यमानेऽतीतत्वादिविरोधतः कारणात् स्वरूपमेव सर्वेषामित्यादिक्रियायोगः, अतः सदसत्प्रत्ययभेदादनेकरूपं वस्तु इति स्थितम् ॥
न चेत्यादि । न च पार्थिवद्रव्यसत्वप्रत्यय एव सर्वथैकरूपतया निरंशः अबाद्यसत्त्वप्रत्ययस्तथा-तदेकरूपतया अप्रतीतेः, किन्तु प्रत्ययान्तरमयम् । २५ अत्राह-असत इत्यादि । असतोऽनुपाख्यत्वेन हेतुना प्रत्ययहेतुत्वानुपपत्तिः, अतः कथमबायसत्त्वप्रत्ययः । इति-एवं चेत् मन्यसे, एतदाशङ्याह
(विवरणम्) (१२) 'यथाऽनेकस्वभाव'मित्यादिकारिकाव्याख्याने कार्येनैकत्रोपयोगमधिकृत्येति । तथाहि-जीवलक्षणमजीवलक्षणं वा वस्तु अनन्तस्वभावम् एकत्र-ऋष-३० भादिविज्ञाने कारून सव्यापारमभूत् , अन्यथा केषाञ्चित् स्वभावविशेषाणामनव१-३ अनुष्टुप् । ४ 'वस्त्वेव स्व.' इति ङ-पाठः। ५ 'कात्स्न्ये नोप०' इति घ-पाठः ।