________________
अनेकान्तजयपवाकाख्यं प्रकरणम्
[प्रथम (मूलम्) य इष्टोऽमेकफलकृद् भावः सोऽपि निराकृतः॥ एको खनेकजननखभावस्तद्विचित्रताम् । ऋते न युज्यते यस्मादुक्तदोषप्रसङ्गतः ॥ तथादर्शनतोऽप्यस्य तत्वभावत्वकल्पना । अत एव स्थिरत्वादि सिद्धिसङ्गादसङ्गता ॥ युक्त्या न युज्यते स्थैर्य कया वैकखभावतः। नानाकार्यसमुत्पादः खात्मना चिन्त्यतामिदम् ॥
(स्वो० व्या०) कारणात् परैः-बौद्धैः य इष्टः-अभ्युपगतः अनेकफलकृत्-अनेककार्यकरणशीलो भावः सोऽपि निराकृतः ।
एतदेव प्रकटयति एको हीत्यादिना । एको यस्मात् अनेकजननखभावः तद्विचित्रता-स्वभावविचित्रताम् ऋते-विना न युज्यते, यस्मात् उक्त१५ दोषप्रसङ्गतः।
अत्रैवोपचयमाह तथेत्यादिना । तथादर्शनतोऽपि अनेकविज्ञानजनकत्वेन अस्य-भावस्य तत्स्वभावत्वकल्पना-अनेककार्यकरणैकस्वभावत्वकल्पना । किमित्याह-अत एव-तथादर्शनात् स्थिरत्वादिसिद्धिसङ्गात् कारणात्
न सङ्गतेति । २० आह-युत्तयेत्यादि । युक्त्या-क्रम-योगपद्याभ्यामर्थक्रियाविरोधमावलक्षणया न युज्यते स्थैर्य भावानाम् । अत्रोत्तरम्-कया वा युक्त्या? एकखभावतो भावात् नानाकार्यसमुत्पादो युज्यते खात्मना चिन्त्यतामिदम् । न सर्वथा तत्स्वभावभेदमन्तरेण तथाऽनेकविज्ञानजनकत्वमपि, दिगादिभेदेन तथाप्रतीत्ययोगादिति ।
(विवरणम् ) २५ (१६) 'तथेत्यादिकारिकावृत्तौ तथादर्शनतोऽपि अनेकविज्ञानजनकत्वेनेति । एकस्यापि स्तम्भादेः पदार्थस्य पूर्वपश्चिमादिदिग्वर्तिनामनेकेषां प्रमाणामेकस्मिन्नेव काले पूर्वोऽयं पश्चिमोऽयमित्याद्युल्लेखेनानेकेषु विज्ञानलक्षणेषु कार्येषु जायमानेषु साक्षादेव दृश्यते "हेतुभावः । न च दृष्टेऽनुपपत्तिरुद्धाहणीया इति तथादर्शनादेव किं नोपपद्यते एकस्मादप्यनेककार्योत्पत्तिरिति पराभिप्रायः॥
१-३ अनुष्टुप् । ४ 'चैका.' इति क-पाठः। ५ अनुष्टुप् । ६ 'सङ्गता' इति घ-पाठः, 'संमता' इति तु ङ-पाठः 1 ७ ‘हेतुमानः' इति क-पाठः। ८ 'न हि दृष्टेऽनुपपलं नाम इति हिन्यायखरूपम्' इति क-टिप्पणकम् ।