________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणायुतम्
नाकारणं यतः कार्य नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्य-कारणयोः क्वचित् ॥ ततश्च कार्यनानात्वं सर्वथा कारणैकताम् । बाधतेऽनेकतायां च स्थितानेकस्वभावता ॥ एतेनैकस्वभावोऽपि तत्स्वभावत्वतः परैः।
(स्त्रो० व्या०) भावे वाऽस्य प्रस्तुतहेतुस्वभावादपि तदभावोऽस्तु, एकरूपत्वाविशेषादित्यलं प्रसङ्गेन । — एवं नाकारणमित्यादि । नाकारणं यतः यस्मात् कार्यं सदाभावादिप्रसङ्गात् १० अन्यकारणकारणं न एकान्तेन, अत एव हेतोः, एवं चैतदङ्गीकर्तव्यम् । इत्याहअन्यथा-एवमनभ्युपगमे न व्यवस्था स्थात् नियमवती कार्य-कारणयोः कचिद् इदमस्य कारणमिदमस्य कार्यमित्येवम् , तदभावेऽपि तत्त्वतस्तदुत्पत्तरिति । . ततश्चेत्यादि । ततश्च कार्यनानात्वं-कार्यभेदलक्षणं सर्वथा कारणैकतांतथाविधैकस्वभावरूपताम् । किमित्याह-बाधते-निराकरोति अनेकतायां च १५ कारणस्य स्थितानेकस्वभावता, तत्स्वभावभेदतः कार्यभेदोपपत्तेः । । . एतेनेत्यादि । एतेन-अनन्तरोदितेन एकखभावोऽपि भावः तत्वभावत्वतः
(विवरणम्) (९) भावे वाऽस्य प्रस्तुतहेतुस्वभावादपि तदभावोऽस्त्विति । यदि हि सेतिकायाः सकाशादस्य कार्यद्वयाभावस्य भावो भवताऽभ्युपगम्यते, तदा प्रस्तुत-२० हेतुस्वभावादपि घटादिकारणरूपात् तदभावः-सदसत्प्रत्ययलक्षणकार्यद्वयाभावोऽस्तु । कुत इत्याह-(९) एकरूपत्वाविशेषादिति एकरूपा सेतिका घटादिश्च, अतः कोऽनयोर्विशेषो 'येन घटात् कार्यद्वयं सेतिकातस्तु एकमेवाभ्युपगम्यते इति ? ॥
(१०) 'नाकारणमित्यादिकारिकाविवरणे अन्यकारणकारणं नैकान्तेनेति । अन्यस्य-घटादेर्यत् कारणं-सूत्रपिण्डादि तदन्यकारणं "ततोऽन्यकारणकारणं यस्य २५ घटादेतत् तथा न-नैव एकान्तेन-नियमेन । कुत इत्याह-अत एव हेतोरिति अत . एव पूर्वोक्तात् सदाभावादिप्रसङ्गाद्धेतोः । तथाहि-यथा कारणविकलं सत्कार्यं नित्यं विद्यमानमविद्यमानं वा स्यात् , एवमन्यकारणमपि कार्य सदाभागभाग वा प्राप्नोति, अन्यकारणानां सदा जगति विद्यमानत्वादिति ।।।
(१३) तदभावे तत्त्वतस्तदुपपत्तेरिति । विवक्षितनिजकारणभावे परमार्थवृत्त्या ३० विवक्षितघटादिकार्योत्पत्तेः ।। .. १-२ अनुष्टुप् । ३ एवाहेतोः' इति क-पाठः । ४ 'यो' इत्यधिकः क-पाठः । ५ 'अन्यत् कारणं' इति क-पाठः । ६ 'सदाभागभावग् वा' इति च-पाठः । ७ 'कार्योत्पत्तिः' इति क-पाठः।