________________
.. अनेकान्तजयपताकाख्यं प्रकरणम्... [प्रथमः
(मूलम् ) नावधारणसामाद वस्तु तादात्म्यमुज्झति । उक्तावधारणेऽप्येकतृप्तये युक्तसेतिका ॥..
(स्वो० ध्या०) . युक्तस्ततोऽन्यभावोऽपि अन्ययोगाव्यवच्छेदात् तत एव । एतदाशझ्याहसेतिकाज्ञाततः-सेतिकोदाहरणात् न हि-नैव युक्तस्ततोऽन्यभाव एव । - एतद्भावनायैवाह-नावधारणेत्यादि । नावधारणसामर्थ्यात् शाब्दन्यायानु
गंताद् वस्तु तादात्म्यमुज्झति-तदात्मत्वं परित्यजति । कुत इत्याह-उक्तावधा१० रणेऽपि सति एकतृसये हि-एकतृश्यर्थमेव उक्तसेतिका । तथाहि-अत्राप्येवमवधारणं कर्तुं शक्यत एव-कात्स्येनैव सेतिकैकतृप्तिजननस्वभावा, एकतृप्तिजननस्वभावैवेत्येतत् तु न । न चैवमपि सा कार्येनैकतृतिं विधाय अन्यस्यापि विधत्ते, न सा तत्त्वत उभयतृप्तिजननैकस्वभावेति कोऽत्रापवादहेतुः? । तस्या एव तत्स्वभावता। कथमिदं ज्ञायते । तथाविधकार्यद्वयाभावेन, तदेकान्तैकरूपतायामयमेवायुक्तः ।
. (विवरणम्) एवं च यत् सिद्धं तदाह-(६) युक्तस्ततोऽन्यभावोऽपि अन्ययोगाव्यवच्छेदात् तत एवेति । युक्तः-घदमानकस्ततः-एवं सति अन्यस्य--द्वितीयकार्यस्य भावः, अपिशब्दात् प्रथमस्य च; तत एव प्रथमकार्योपयुक्तहेतोरेव । कुत इत्याह--अन्ययोगाव्यवच्छेदात्-अन्ययोगाव्यावर्तनात् ।। २०. (१२-१३) नावधारणेत्यादिकारिकाविवरणे न सा तत्त्वत उभयतृप्तिजननैकस्वभावेति कोऽत्रापवादहेतुरिति ? । आचार्य आह-न सा सेतिका तत्त्वतःपरमार्थवृत्त्या उभयस्य-भोक्तद्वयस्य तृप्तिजनन एकः स्वभावो यस्याः सा तथा इति । कोऽत्र सेतिकाया अपवादहेतुः, अपवादस्योत्सर्गप्रतिषेधरूपस्यैकस्मादपि कारणात् ,
अनेककार्योत्पत्तिलक्षणे उत्सर्गे सर्वत्राभ्युपगम्यमाने सति हेतुः-कारणमिति आचार्यः। २५ परस्तस्या एव तत्स्वभावता। आचार्यः कथमिदं ज्ञायत इति सुगममेव । अथ परः तथाविधकार्यद्वयाभावेनेति कार्यानुमेया हि कारणस्वभावाः, ततः कार्यद्वयानुपलम्भेन निश्चीयेते, यदुत ऐककर्तृजननस्वभावैव सेतिकेति आचार्यः ॥
(१४) तदेकान्त(१)रूपतायामयमेवायुक्त इति । यदि हि सा सेतिका एकान्तेन एकस्वभावाऽभ्युपगम्यते ततो न कार्यद्वयाभावो युज्यते, एकस्वभावादपि घटादेः ३० सदसत्प्रत्ययद्वयाभ्युपगमात् ॥
१ अनुष्टुप् । २ 'गमात्' इति क-पाठः । ३ 'एवातत्व.' इति घ-पाठः 1 ४ 'जायते' इति - पाठः। ५ 'कखरूप०' इति क-पाठः। ६ 'स्यावर्तनात्' इति क-पाठः । ७ 'अपवाद उत्सर्ग' इति च-पाठः । ८ 'तत्स्वभावात्' इति क-पाठः । ९. “एकतृप्तिजनन ' इति च-पाठः ।