________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणसुतम्
(मूलम्) आह च
“यस्मात् सत्त्वमसत्त्वं च न विरुद्धं मियो द्वयम् ।
वस्त्वेकं सदसद्रूपं ननु तत् किं न युज्यते ? ॥ ५ यदप्युक्तम्-'सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति' इत्येतदिष्यत एव । यत् पुनरिदमुक्तम् - 'ततश्चात्रापि वक्तव्यं धर्मधर्मिणोः किं तावद् भेदः' इत्यादि, अनापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न 'नः क्षतिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव । आह-१० ननु 'अत्रापि येनाकारेण भेदस्तेन भेद एव' इत्यादि दूषणमुक्तम्', उक्तमिदम् ; अयुक्तं तूक्तम् , भेदाभेदपक्षे तदसम्भवात् । असम्भवश्वान्योन्यव्याप्तिभावेनास्य जात्यन्तरात्मकत्वात्, केवलभेदाभेदा
(स्वो० व्या) सदसद्रूपं वस्त्वङ्गीकर्तव्यमिति । आह च-यस्मात् सत्त्वमसत्त्वं च । १५ किमित्याह-न विरुद्धं मिथो द्वयम्, उक्तवदिति । वस्त्वेकं सदसद्रूपं शबलतया । ननु तत् किं न युज्यते?। युज्यत एव । एवं पूर्वपक्षश्लोकपरावर्तना ॥ ___ भूयोऽपि पूर्वपक्षग्रन्थमुपन्यस्य तत्परिहारमाह यदप्युक्तमित्यादिना । यदप्युक्तं पूर्वपक्षग्रन्थे -'सदसद्रूपं वस्त्वभ्युपगच्छता सत्त्वमसत्त्वं च वस्तुधर्मतयाऽभ्युपगतं भवति इत्येतदिष्यत एव, न ह्यभ्युपगमा एव बाधायै भवन्ति । २० यत् पुनरिदमुक्तं पूर्वपक्षग्रन्थ एव-ततश्चात्रापि वक्तव्यं धर्मधर्मिणोःकिं तावद् भेदः' इत्यादि, अत्रापि-उक्ते सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषः । किमित्याह-अनभ्युपगमतिरस्कृतत्वादेव कारणात् न न:नास्माकं "क्षतिमावहति, भेदाभेदपक्षस्तु तृतीयः अभ्युपगम्यत एव । अत्रापि नाभ्युपगमा एवं बाधायै भवन्ति । आहेत्यादि परः । ननु अत्रापि-भेदा-२५ भेदपक्षे "येन आकारेण भेदस्तेन भेद एवेत्यादि दूषणमुक्तं पूर्वपक्षग्रन्थ इति । अत्राह-उक्तमिदं दूषणम् , अयुक्तं तूक्तम् । कुत इत्याह-भेदाभेदपक्षे अस्मदभिमते तदसम्भवात्-उक्तदूषणासम्भवात् । असम्भवश्च उक्तदूषणस्य अन्योन्यव्याप्तिभावेन हेतुना अस्य-भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात्
१ अनुष्टुप् । २-३ उभयत्र द्वादशे पृष्ठे। ४ 'नः क्षितिमा०' इति क-पाठः । ५ द्वादशे पृष्ठे । ६ 'आह यस्मात्' इति ङ-पाठः। ७ प्रेक्ष्यतामेकादशं पृष्ठम्। ८-९ उभयत्र द्वादशे पृष्ठे । १. 'क्षितिमावहति' इति घ--पाठः। ११ 'येन प्रकारेण भेदोऽस्ति मेद एवेत्यादि' इति कपाठोऽशुद्धः। १२ द्वादशे पुर।
भनेकान्त. ९